________________
संस्कृत निबन्धशतकम्
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ शि० २- १० स्वकवित्वस्य कल्पनामनोज्ञत्वस्य च संकलनं विदधता तेनोच्यते यद् यथा स्वल्पवयस्का बाला मातरम् अन्वेति तथैव प्रातःकालिकी सन्ध्या रजनिम् अनुगच्छति -
अनुपतति विरावैः पत्रिणां व्याहरन्ती । रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ शि० ११ - ४०
उपमा प्रयोगे शास्त्रीयस्य पाण्डित्यस्यापि अपूर्वः समन्वयो दृश्यते । सांख्यदर्शनानुसारं पुरुष उदासीनोऽकर्ता च परं बुद्धिकृतकर्मणां फलभाग् भवति, तथैव साक्षिमात्रोऽपि कृष्ण: सेनाकृतविजयस्य फलभोक्ता भविष्यति - विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ शि० २-५९
११४
उपमाप्रयोगे मनोज्ञायाः कल्पनाया अपि सदुपयोगः प्रशस्यः । कृष्णं दिदृक्षमाणायाः कस्याश्चिद् रमण्या गवाक्षगतं वदनकमलम् उदयाद्रिकन्दरास्थितसुधांशुमण्डलमिव व्यराजत
अधिरुक्म मन्दिर गवाक्ष मुल्लसत् सुदृशो रराज मुजद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदर स्थितमिवेन्दुमण्डलम् ॥
शि० १३-३५ नारदश्रीकृष्णयोः सितासिते कान्ती तथैवारोचयतां यथा रात्रौ पत्रान्तरगोचराः सुधांशोर्मरीचयः -
रथाङ्गपाणेः पटलेन रोचिषाम् ऋषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ शि० १-२१ माघस्यार्थगौरवम्--माघेऽर्थगौरवान्वितानां श्लोकानां महती परम्परा । यद्यप्यर्थगौरवं पदे पदे प्रेक्ष्यते, तथापि द्वितीयः सर्गः सर्वातिशायी । तत्र प्रतिपदम् अर्थगौरवं दृग्गोचरताम् उपयाति । कतिपये एव श्लोका उदाहरणार्थम् अत्र प्रस्तूयन्ते । अत्रापि तस्य विविधशास्त्रज्ञता, कल्पनाकाम्यत्वम्, भावोत्कर्षः, सूक्ष्मेक्षणदक्षता, नीतिज्ञता, व्यवहारपाटवम्, लोकाराधनक्षमत्वं च समीक्ष्यते । तस्य कतिपयानि हृद्यानि पद्यानि सुभाषितरूपेण प्रयुज्यन्ते । कृष्ण एव रक्षोनिकरं विनाशयितुं क्षमो यथा भास्करस्तमोनिचयम्—
ऋते रवेः क्षालयितुं क्षमेत कः, क्षपातमस्काण्डमलीमसं नभः । शि० १-३८
मनस्विता जीवनोन्नायिका । मानहीनस्य जीवनं तृणमिव तुच्छम् । अनेकशो मनस्वितायाः स्वाभिमानस्य च गुणगौरवं वर्ण्यते कविना -