SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ संस्कृत-प्राकृतभाषयोः साधर्म्य वैधयं च १७१ द्विप्रकारेण वा प्रवर्तन्ते । ( ५ ) संक्षेपजन्याया अस्पष्टताया वारणाय कारकचिह्नभूतानां परसर्गाणाम् उद्भवोऽभूत् । तत एव वर्तमान-वियोगात्मकभाषाणां जनिरभूत् । (६) सति संक्षेपेऽपि संस्कृत-व्याकरणवत् प्राकृतव्याकरणं प्रवृत्तम् । सर्वाणि शब्दरूपाणि प्रायशोऽकारान्तशब्दवत् प्रवृत्तानि । सर्वाणि धातुरूपाणि च भ्वादिगणीय-धातुवत् प्रवृत्तानि । (७) चतुर्थीविभक्त्या अभावोऽभूत् । प्रथमाद्वितीया-विभक्त्योर्बहुवचनरूपाणि प्रायशः समानान्येव संजातानि । (८) धातु- . रूपेषु लङ्-लिट्-लुङ्-लकाराणाम् अभावो दृश्यते । (९) शब्दरूप-धातुरूपयोद्विवचनस्य सर्वथा लोपोऽवलोक्यते। (१०)धातुरूपेषु केवलं परस्मैपदमेव प्राचरत् । आत्मनेपदं तु लुप्तप्रायमेव । ( ११ ) परसर्गाणां सहायक-क्रियाणां च वैशिष्टयेन प्रयोगो न प्रावर्तत । ( १२) ध्वनिपरिवर्तनं मुख्यरूपेण संलक्ष्यते । संयुक्ताक्षरेषु परसवर्णत्वं पूर्वसवर्णत्वं वा प्रायशोऽवलोक्यते । ( १३ ) केचन प्राचीनाः स्वरा वर्णाश्च विलुप्ताः । यथा-ऋ, ऐ, औ स्वराः, य-श-ष-विसर्गाश्च । मागधोभाषायां य-श-वर्णी स्तः, परं तत्र स-वर्णाभावो वर्तते । ( १४ ) संस्कृतभाषायाम् अप्राप्यौ ऐ ओ नवीनौ लघस्वरौ दृकपथम उपगच्छतः । (१५) सामान्यतया पदान्तव्यञ्जनस्य शब्दान्तव्यञ्जनस्य च लोपो दृश्यते । (१६) ह्रस्व-स्वरानन्तरं व्यञ्जनद्वयाद् अधिकस्य सत्ता नाभीष्यते। दीर्घस्वरानन्तरं च व्यञ्जनैकमेव स्वीकार्यम् । ( १७ ) प्राकृतध्वनिनियमाश्रयात् केषुचित् स्थलेषु शब्दानां मूलरूपमेव नाभिज्ञायते । यथा वाक्पतिराजः>वप्पइराअः, अवतीर्णः >ओइण्णः इत्येवं स्वरूपं धत्ते । (१८) प्राकृते केचन संस्कृतशब्दाः तत्समरूपेण प्रयुज्यते । अधिकांशाः शब्दा यद्यपि विकतरूपेण प्राप्यन्ते, तथापि ते मूलसंस्कृतस्वरूपद्योतने क्षमाः। ध्वनिनियमाः--केचन ध्वनिनियमा दिङ्मात्रमत्र निर्दिश्यन्ते । (१) समस्तपदेषु उत्तरपदस्य प्रथमाक्षरं लुप्यते । यथा-आर्यपुत्र>अज्जउत्त । (२) अनुदात्ताव्ययानां प्रथमाक्षरं लुप्यते । पुनः > उण, अपि >वि, च>अ । ( ३ ) भूधातोः भकारस्य हकारः । भवति >होइ । (४) ककारस्य खकारः, पकारस्य च फकारो महाप्राणः । क्रीड् >खेल, पनस >फणस । ( ५ ) श-ष-सवर्णानां स्थाने सः । मागध्यां तु श एवावशिष्यते । ( ६ ) मध्यगताः क-त-पाः ग-द-बा भवन्ति । अतिथि >अदिधि, कृत >किद । (७) मध्यगत-महाप्राणवर्णानां ख-घ-थ-ध-फ-भ-वर्णानां स्थाने हः भवति । मुख >मुह । (८) मध्य. गत-अल्पप्राणवर्णानां क-ग-च-ज-त दानां प्रायशो लोपो भवति । मध्यगतो यः सदा लप्यते । लोक>लोअ, हृदय >हिअअ, प्रिय >पिअ । (९) मध्यगतः पः वः संपद्यते । दीप > दीव, हिन्दीभाषायां दीपावली >दिवाली । (१०) मकारस्य वकारो भवति । मन्मथ >वम्मह । संयुक्ताक्षर-विचारः-( १ ) संयुक्ताक्षरेषु क्वचित् परसवर्णत्वम् । यथा
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy