SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ .. ४७. संस्कृत-प्राकृतभाषयोः साधम्यं वैधयं च प्राकृत-शब्दार्थ:--प्रकृतेः आगतं प्राकृतम् । अत्र प्रकृतिशब्देन वैदिकभाषा संस्कृतभाषा वा ग्राह्या । वैदिकभाषाया एव प्राकृतभाषाया उद्भवो विज्ञायते । लोकभाषा शिष्ठभाषाश्रयैव परिलक्ष्यते । प्राकृतभाषा लोकभाषा, सा च शिष्टभाषारूपेण वैदिकभाषामेव आश्रयते । प्रकृतिशब्देन जनसाधारणो गृह्यते, तन्मूला भाषा प्राकृतभाषेति केषांचिन्मतम् । परं न तद् युक्तिसहम् । जनसाधारणभाषायाः शिष्टभाषापूर्ववर्तित्वं न संभाव्यते, न च दृश्यते।। प्राकृतवाङ्मयम्--प्राकृतभाषा त्रिधा विभज्यते। ( क ) प्राचीनप्राकृतं पालीभाषा वा। तत्र तृतीयशताब्दी ईसवीयपूर्वाद् आरभ्य द्वितीय-शताब्दी ईसवीयं यावत् प्राप्ताः शिलालेखाः, पालीभाषाग्रन्थाः, महावंश-जातकादयो बौद्धग्रन्थाश्च संगृह्यन्ते । ( ख ) मध्यकालीन-प्राकृतम्। तत्र माहाराष्ट्री, शौरसेनी, मागधी, जैनग्रन्थानां भाषा अर्धमागधी, पैशाची च भाषा गृह्यन्ते । (ग ) परकालीन-प्राकृतम् । तत्रापभ्रंशः संगृह्यते । प्राकृतेषु माहाराष्ट्री प्राकृतं सर्वोत्कृष्टं गण्यते । उक्तं च दण्डिना काव्यादर्श-(१-३५ )-'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः' । नाटकेषु पद्यरचना माहाराष्ट्री-प्राकृते एव प्राप्यते । गउडवहो-प्रभृतिकाव्यं माहाराष्ट्रीभाषायामेवोपलभ्यते । शौरसेनी-प्राकतं मथुरासमीपति-शूरसेन-प्रदेशे प्रायुज्यत । एतस्मादेव हिन्दी-भाषोत्पत्तिः । नाटकेषु इदमेव प्राकृतं प्राधान्येन प्रयुज्यते । मागधी-प्राकृतं पूर्व-विहारस्य मगधदेशे प्रायुज्यत ।। संस्कृत-प्राकृतभाषयोः साधर्म्यम्-संस्कृत-प्राकृतयोमहत् साम्यम् अवलोक्यते । संस्कृतभाषावत् प्राकृतेऽपि सैव वर्णमाला, तथाविध एव सन्धिविचारः, शब्दरूपाणि, धातुरूपाणि, कृत्-तद्धितादिप्रत्ययाः, स्त्रीप्रत्ययाः, समासादिकं च सममेव दृश्यते । एतस्मात् कारणादेव प्राकतभाषा सारल्येन संस्कृतभाषायाम् अनुवक्तुं पार्यते । संस्कृत-प्राकृतयोर्वधर्म्यम्'--सामान्यतया संस्कृतप्राकृतभाषयोः साम्येऽपि केचन विशेषाः संलक्ष्यन्ते । तद्यथा-(१) प्राकृतभाषा संयोगात्मिका भाषा । सुप्तिङादि-प्रत्ययाः शब्दादिभ्यः संश्लिष्टा एव प्रयुज्यन्ते । (२) अत्र प्राचीनव्याकरणस्य सरलीकरणं दृश्यते । ( ३ ) शब्दरूपाणां धातुरूपाणां च संख्या न्यूनत्वम् उपागता। ( ४ ) शब्दरूपेषु सप्तविभक्तीनां स्थाने विभक्तित्रयं विभक्तिचतुष्टयं वाऽवशिष्यते । धातुरूपाण्यपि दशगणभेदं विमुच्य एकप्रकारेण १. विस्तृतविवेचनार्थं द्रष्टव्यम्- लेखककृते संस्कृतव्याकरणे संक्षिप्त-प्राकृतव्याकरणम्, पृष्ठ ४०७-४२१
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy