________________
वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च चक्र-चक्रा। (ड) हिस्थाने धिः । श्रुधी, कृधि, पूधि । (ढ.) रकारस्यागमः । अदर्शम्-अदृश्रम् । (ण) अमः स्थाने म् । अवधिषम्-वधीम् । (त) तस्थाने तन, थन । सुनुत-सुनोतन, स्त-स्थन । ( थ ) आसीत्-स्थाने आः, सर्वम् आ इदम् ।
(९) कृत्प्रत्ययेषु तुमर्थे से, असे, अध्यै, तवै, तवे इत्यादीनां प्रयोगः । एतुम्-एषे, जीवितुम्-जीवसे, पातुम्-पिबध्यै, दातुम्-दातवे, कर्तुम्कर्तवे। लोके केवलं तुम-प्रत्यय एव प्रयुज्यते । त्वा-प्रत्ययस्थाने त्वी, त्वाय च । पीत्वा-पीत्वी, गत्वा-गत्वाय ।
(१०) सन्धिनियमेष्वपि केचन भेदाः प्राप्यन्ते । क्वचिद् 'एङः पदान्तादति' इति न प्रयुज्यते, अतः पूर्वरूपाभावः । उपप्रयन्तो अध्वरम् । अचि सत्यपि भान्–आँ । देवां अच्छ । महाँ इन्द्रो० । युष्मे, अस्मे इत्यस्य प्रगृह्यत्वात् सन्ध्यभावः । युष्मे इत्था । अस्मे आयुः । डकारस्य ळकारः । ईडे-ईळे ।
एवं वैदिक-लौकिक-संस्कृतयोः पर्याप्तं वैषम्यं लक्ष्यते ।