________________
१६८
संस्कृत निबन्ध शतकम्
,
,
तृतीया बहुवचने प्रियैः प्रियेभिः । अकारान्तनपुंसकलिंगरूपेषु - अकारान्त पुंलिंगवत् चत्वारो भेदाः, प्र० द्वि० सं० बहुवचने प्रियाणि, प्रिया । इकारान्त पुंलिंगरूपेषु द्वौ भेदौ - तृतीयैकवचने आ, ना । शुचिना, शुच्या । स्त्रीलिंगे - तृ० एक०शुच्या, शुचि, शुची । सप्तम्येकवचने - शुचौ शुचा । नपुं० प्रथमादिबहुवचनेशुचीनि शुचि, शुची । एवमेव उकारान्त पुंलिंगरूपेषु तृ० एक० मधुना, मध्वा ष० एक० मधोः, मध्वः सप्तम्येकवचने - मधौ, मधवि । अन्नन्तशब्दरूपेषु सप्तम्येकवचने अश्मन्, अश्मनि । सामान्यतः प्रथमा - द्वितीया - द्विवचने औ आ च । पठत् - पठन्तो, पठन्ता । राजन् - राजानी, राजाना । वाच् - वांचौ, चाचा । युष्मदस्मद्रूपेषु वैषम्यं यथा - युष्मद् - प्र० द्विवचने युवम्; तृ० एक० `त्वा, त्वया; ष० द्विवचने- युवोः, युवयोः; स० एक० - त्वे, त्वयि : अस्मद् — प्र० द्विवचने - आवम्, बाम्; च० एक० - मह्यम्, मह्य, इत्यादयः । युष्मदस्मदोर्बिभिन्नस्थानेषु युष्मे, अस्मे इति प्रयोगो । क्वचिद् रूपेषु 'या' इत्यस्य शब्दान्ते प्रयोगो लक्ष्यते । शब्दरूपेषु अन्याः काश्चन विशेषता दृश्यन्ते । यथा - अन्य - विभक्तिस्थाने प्रथमाविभक्त्येकवचनप्रयोगः, कारक- व्यत्ययः, पदान्तस्वरस्य दीर्घीकरणम्, क्वचिद् आकारान्त प्रयोगेणैव विभक्त्यर्थं प्रकाशनम् ।
(७) लोके धातुभ्योऽव्यवहितपूर्वम् उपसर्गाः प्रयुज्यन्ते । वेदे उपसर्गाणां स्वातन्त्र्येणापि स्थितिर्भवति । एकवारं क्रियया सहोपसगंप्रयोगे सति पुनस्तदर्थबोधनार्थं केवलम् उपसर्गस्यैव प्रयोगो भवति ।
( ८ ) धातुरूपेषूल्लेख्या विशेषताः सन्ति - ( क ) लेट्-लकारप्रयोगो लोकेऽदृष्टः। लेट्लकाररूपाणि यथा - भवाति, भवातः भवान् प्र० पु० । कृधातोर्लेट्लकाररूपाणि - कृणवत्, कृणवतः, कृणवन्, प्र० पु० । (ख) भ्वादिगणीयशबादि-विकरणानां व्यत्ययः प्रायशो दृश्यते । यथा भिनत्ति इत्यस्य स्थाने भेदति-प्रयोगः । हन्ति इत्यस्य स्थाने हनति । नयतु — नेषतु । तरेम इत्यस्य स्थाने तरुषेम । शेते - शयते, ददाति - दाति । ( ग ) तिव्यत्ययः । बहुवचन-स्थाने एकवचनरूपप्रयोगः - ये तक्षन्ति इत्यस्य स्थाने ये तक्षति, इति प्रयोगः । (घ ) पद - व्यत्ययः – परस्मैपदस्थाने आत्मनेपदप्रयोगः-, आत्मने पदस्थाने परस्मैपदप्रयोगश्च । इच्छति -स्थाने इच्छते -प्रयोग: । (ङ) पुरुषव्यत्ययः – प्रथमपुरुषस्थाने मध्यमपुरुषप्रयोगः । वियूयात् - विययाः । (च) कालव्यत्ययः - लुट: स्थाने लृटः प्रयोगः । श्वोऽग्नीन् आधास्यमानेन । (छ) व्यञ्जनव्यत्ययः । अदुक्षत् - अधुक्षत् । ( ज ) इदन्तो मसि, उत्तम पु० बहुवचने इकारान्तप्रयोगः । वदामः - वदामसि । ( झ ) लङादिषु अट: स्थाने आडागमः । अनट् — आनट् । (ञ) सर्वलकारस्थाने लुङादिप्रयोगः । आगच्छतु इत्यस्य स्थाने आगमत् । ( ट ) हृग्रहोर्भ:, हकारस्थाने भकार प्रयोगः । गृह्णामिगृभ्णामि । जहार - जभार (ठ) अन्त्यस्वरदीर्धीकरणम् । विद्म विद्मा,