SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ४६. वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च ___ (वैदिकसंस्कृत-लौकिकसंस्कृतयोस्तुलना) वैदिकभाषा-ऋग्वेदादिवेदचतुष्टये तत्-शाखाग्रन्थेषु च या भाषा प्रयुज्यते सा वैदिकभाषा-नाम्ना व्यवह्रियते । कालिदासादि-काव्येषु या संस्कृतभाषा सा लौकिकसंस्कृतनाम्ना निदिश्यते । वैदिक-लौकिक-संस्कृतयोः साम्यम्-वैदिक-लौकिक-संस्कृतयोः सूक्ष्मदृष्ट्या विवेचनेन ज्ञायते यद् लौकिक-संस्कृतभाषा वैदिक-संस्कृत-भाषोद्भूतैव । वेदेष्वपि शब्दरूपाणि, धातुरूपाणि, कृत्-तद्धित-प्रत्ययाः, समासादयश्च प्राप्यन्ते । संस्कृतशब्दा अपि प्रायशस्ते एव सन्ति । धात्वर्था अपि प्रायेण त एव वर्तन्ते । रूपनिर्माणविधिरपि स एव । एवं ९९ प्रतिशतं वैदिकलौकिक-संस्कृतयोः साम्यं निरीक्ष्यते ।। __ वैदिक-लौकिक-संस्कृतयोर्वैषम्यम्'-द्वयोषियोस्तुलनया विज्ञायते यद् यद्यपि द्वयोर्न मौलिकमन्तरम्, तथापि वैदिको भाषा संस्कृतस्य प्राचीनतमं रूपं प्रस्तौति । तत्र रूप-बाहुल्यम्, प्रत्यय-बाहुल्यम्, सन्धि-परस्मैपदात्मनेपदशबादीनां नियमानां न तथाऽनिवार्यत्वम् अवश्यं करणीयत्वं चावलोक्यते । अतएव वैदिकी भाषा प्रयोगविषये उदारा विविधभावग्राहिणी च । दिग्देशादिभेदेन यत्र तत्र वा प्रयुक्ताः शब्दा धातवश्च तत्र संनिवेशम् अर्हन्ति । एतेन वैदिक-संस्कृतभाषा शब्द-धातु-रूपादिदृष्ट्या संपन्नतरा प्रेक्ष्यते । अत्र केचन प्रमुखा भेदा निर्दिश्यन्ते । तद् यथा (१) लौकिकसंस्कृते उदात्तादि-स्वराणां प्रयोगो न विधीयते । वेदे तू उदात्तादि स्वराणां प्रयोगोऽवश्यकर्तव्यत्वेन निर्धार्यते। अर्थनिर्धारणेऽपि उदात्तादिस्वराणामुपयोगो जायते । (२) वैदिकभाषायां प्रयुक्ता बहवः शब्दा धातवश्च लौकिक-संस्कृते लुप्तप्राया एव । (३) वैदिकभाषा संस्कृतस्य प्राचीनतमं रूपं प्रस्तवीति, लौकिकं संस्कृतं चार्वाचीनतरं रूपम् । ( ४ ) बहवो वैदिकशब्दा रूपसाम्येऽपि लौकिकसंस्कृतेऽर्थभेदेन प्रयुज्यन्ते । यथा-अरातिअसुरादयः शब्दाः । ( ५ ) धात्वर्थविषयेऽपि द्वयोर्वैषम्यं प्रेक्ष्यते । धात्वर्थपरिवर्तनवतां धातूनां संख्याऽल्पीयसी एव । यथा वेदे जयार्थकः सह, धातुलौकिक-संस्कृते मर्षणार्थे प्रयुज्यते। उड्डयनार्थक उत्पतनार्थको वा पत्धातुलॊके पतनार्थे प्रयुज्यते । ( ६ ) शब्दरूपदृष्टया द्वयोर्बह्वन्तरं प्राप्यते । यथा-अकारान्तपुंलिंगशब्दरूपेषु चत्वारो भेदाः। प्रथमा-द्वितीया-संबोधनद्विवचने-प्रियौ, प्रिया; प्रथमा बहु०-प्रियाः, प्रियासः; तृतीयैकवचने-प्रियेण, प्रिया; १. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखककृत-संस्कृतव्याकरणम्, पृष्ठ ३८०-४०७
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy