SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् प्रयुज्यते । वेदे 'न' इति निपातो निषेधार्थे उपमार्थे च प्रयुज्यते, परं संस्कृते केवलं निषेधार्थे प्रयुज्यते । उक्तं च यास्केन नेति प्रतिषेधार्थीयो भाषायाम्। उभयम् अन्वध्यायम् ॥ निरुक्त १-४ वेदे पशुमात्र-पर्यायो मृग-शब्दो लोके केवलं हरिणार्थे प्रयुज्यते । एवमेव विद्यार्थको वेद-शब्दोऽद्यत्वे ऋग्वेदादिग्रन्थानेव बोधयति । अन्नमात्रार्थको धान्य-शब्दोऽद्यत्वे केवलं व्रीहिमेवाभिधत्ते । वरणीयार्थको वर-शब्द: केवलं पतिमेव निर्दिशति । अर्थादेशः--यत्र शब्दः स्वार्थं परित्यज्यार्थान्तरं संक्रमते, तदा अर्थादेशप्रक्रिया स्वीक्रियते । यथा वेदे शक्ति-संपन्नार्थद्योतकः 'असर' शब्दः परकाले केवलं दानवार्थकः संवृत्तः । वेदे जयार्थक: 'सह' धातुः संस्कृते मर्षणार्थक: प्रयुज्यते । दोग्ध्री-वाचको 'दुहितृ ( दुहिता )'-शब्द: केवलं पुत्री-अर्थे प्रयुज्यते । मुनि-वृत्ति-सूचको 'मौन'-शब्दस्तूष्णींभावेऽर्थे प्रयुज्यते । सपत्नशब्दः पत्नीपरिणयप्रतिस्पर्धि-रूपम् अर्थ विहाय शत्रुरूपमर्थमेव द्योतयति । साधु-संप्रदाय-बोधकः 'पाषण्ड'-शब्दः प्रपञ्चं छलं कपट भ्रष्टाचारं च द्योतयति । अर्थत्कर्षः, अर्थापकर्षश्च--यत्र सामान्यशब्द: कमपि विशिष्टमर्थं द्योतयति तत्र 'अर्थोत्कर्षः' । वेदे 'साहस'-शब्दो व्यभिचारवृत्त्यादि-कुत्सितेऽर्थे प्रायुज्यत, परं संस्कृते प्रशस्ये उत्साहरूपेऽर्थे प्रयुज्यते । जीर्णवस्त्रबोधकः कर्पटशब्दः शोभने 'कपड़ा ( वस्त्र )'-अर्थे प्रयुज्यते । एवं क्वचित् प्रकृष्टार्थ-बोधकः शब्दो निकृष्टेऽर्थे प्रयुच्यते, तत्र 'अर्थापकर्षः' उच्यते । यथा गोपनार्थको जुगुप्सा-शब्दो घृणाऽर्थे प्रयुज्यते । भक्तार्थ-बोधको 'हरिजन'-शब्दः, शिल्पिवाचकः 'शिल्पकार'-शब्दश्च अस्पृश्यार्थको संवृत्तौ । पूर्णब्रह्मचारि-अर्थबोधको 'वज्रवटुक'-शब्दो बजरबटू ( मूर्खाधमः ) संवृत्तः । ___ अर्थविकासस्य कारणानि--अर्थविकासस्य बहनि कारणानि सन्ति । तत्र कानिचिद् उल्लिख्यन्ते । (क ) आलंकारिक-प्रयोगाः-यथा-कटुवचनम्, कठोरभाषणम् , मधुरालापः, तीक्ष्णवचनम्, अवर्षा, इत्यादयः। ( ख ) नवभाव-प्रकाशनार्थं प्राचीनशब्दानाम् अर्थविस्तारः । यथा गंगा-शब्दो यां कामपि पवित्रनदी द्योतयति । भ्रातृशब्द: प्रियाथं हितैषिणं वा बोधयति । एवमेव मातृ-भगिनी-पत्र-ग्रन्थ-तात-महाराज-गुरुप्रभृतिषु शब्देषु अर्थविस्तारो दृश्यते । (ग) शिष्टाचार-प्रदर्शनार्थम् अशुभार्थनिवारणार्थं च बहवः शब्दा अर्थान्तरे प्रयुज्यन्ते । यथा-'तव' अर्थे-अत्रभवान्, तत्रभवान्, भगवान् इत्यादयः । अन्ध-अर्थे सूरदासः, प्रज्ञाचक्षुः । मरणार्थे स्वर्गवासः, पञ्चत्वं गतः, इत्यादयः । (घ) उत्कृष्टत्वभावना-प्रदर्शनार्थमपि केचन शब्दा निकृष्टेऽर्थे प्रयुज्यन्ते । यथा-देवानां प्रियः ( मूर्खः ), वैयाकरण-खसूचिः (प्रतिभाविहीनः ), तीर्थध्वाङ्कः ( पण्डा ) इत्यादयः।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy