________________
१७२
संस्कृतनिबन्धशतकम्
सप्त > सत्त, दुग्ध > दुद्ध । (२) क्वचिच्च पूर्वसवर्णत्वम् । अग्नि >अग्गि । ( ३ ) क्षस्य च्छः । अक्षि >अच्छि । ( ४ ) वकारस्य यकारस्य च पूर्वसवर्णत्वम् । पक्व >पक्क, योग्य > जोग्ग । ( ५ ) रकारः पूर्ववर्णस्य परवर्णस्य वा सवर्णत्वं भजते । चक्र > चक्क, मार्ग > मग्ग । ( ६ ) अनुनासिकसंगतो यकारोऽनुनासिकत्वं भजते । पुण्य >पुण्ण । (७) कवर्गात् पवर्गाच्च पूर्ववर्ती 'विसर्ग ऊष्मवद् गण्यते । दुःख >दुक्ख ।
स्वरविचारः-(१) प्राकृते ऋ-ल-स्वराभावः। (२) ऐ-औ-स्वरो क्रमशः ए-ओ-स्वरौ भवतः । कौमुदी > कोमुदी। ( ३ ) इकारस्य उकारः, ईकारस्य च एकारः । इक्षु > उच्छु, ईदृश >एरिस । ( ४ ) संस्कृत-ऋकारस्य स्थाने रि, अ, इ, उ वा भवति । ऋषि >रिसि, कृत > कद, दृष्टि> दिल्ठि, पृच्छति >पुच्छदि । ( ५ ) अनुस्वारानन्तरम् अपि >पि, इति >ति भवतः ।
एवं संस्कृत-प्राकृतयोः साम्यं वैधम्यं चावलोक्यते ।