________________
४८. वैदिको संस्कृतिः
संस्कृतिः पुण्या, पुरुषार्थचतुष्टयम् ।
वैदिकी शिष्ट्वा लोकान् पुनात्येषा, सत्याचारगुणप्रदा ॥ ( कपिलस्य )
संस्कृतेः स्वरूपम् — संस्कृतिर्हि जीवनस्यान्तरङ्गं स्वरूपं प्रकाशयति । मननम्, चिन्तनम्, दार्शनिक दृष्टिः, मनोवैज्ञानिकम् अन्वेषणम्, दार्शनिकं विश्लेषणम्, कर्तव्याकर्तव्यविवेचनम्, जीवनोत्कर्षाधायकतत्त्वानां गवेषणम्, समष्ठेः व्यष्टेश्च स्वरूपम्, जीवनस्योद्देश्यं लक्ष्यं च, लोकव्यवस्थितेः साधनानि, प्रकृतिपुरुषयोर्भेदाभेदविवेचनम्, सर्वमेतत् संस्कृतिशब्देन संगृह्यते । अत्र समासतो वैदिकी संस्कृतिरेव विविच्यते प्रस्तूयते च ।
वैदिकं दर्शनम् - वेदेषु दार्शनिकं तत्त्वं प्रचुरमुपलभ्यते । तत्र देवानां स्वरूपस्य, ब्रह्मणः, ईश्वस्य, जीवनस्य, प्रकृतेः सृष्टयुत्पत्तेः, पापपुण्ययोः, लोकपरलोकयोः, मोक्ष- पुनर्जन्मादीनां च वर्णनमवलोक्यते । प्राकृतिकतत्त्वानां सूर्य-चन्द्र-वायु- मेघ विद्युत् प्रभृतीनाम् इन्द्र-वरुण-रुद्र-मरुत्-प्रभृति - नामभिः वर्णनमाप्यते । क्वचिच्चामूर्ता भावा देवरूपेणोपस्थाप्यन्ते । यथा काम:, श्रद्धा, मन्युश्च । ईश्वर: सर्वोत्कृष्टत्वेन गण्यते । तस्यैव इन्द्र - मित्र- वरुणादयो विविधा नामधेयाः । देवानां प्रतिदेवं केचन सामान्य गुणाः, सामान्य-विशेषणानि च, केचन च विभेदका गुणाः । देवानां सामान्यवैशिष्ट्यमाश्रित्य एकेश्वरवादः समर्थ्यते । तेषां विभेदकगुणानाश्रित्य बहुदेवतावादोऽपि प्राप्यते । अतएव 'इन्द्र मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा 'बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः' ( ऋग्० १-१६४ - ४६ ) । एष एवाभिप्रायः'त्वमग्ने वरुणो जायसे यत् त्वं मित्रो भवसि यत्समिद्धः । त्वं विश्वे सहसपुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ' ( ऋ०५ -३ - १ ) अस्मिन् मन्त्रेऽपि परिलक्ष्यते । अत्रक एवेश्वरः इन्द्र-मित्र - वरुणादिनामभिः स्तूयते । पुरुषसूक्त (ऋग्० १०-९०) विराट्पुरुषात् सृष्ट्युत्पत्तिर्वण्यते । नासदीय सूक्ते ( ऋग् ०१० - १२९ ) अपि सृष्ट्युत्पत्तिवर्णनम् । हिरण्यगर्भ सूक्ते ( ऋग्० १० - १२१ ) हिरण्यगर्भप्रजापतेः सृष्टेरुद्भवः । ऋग्वेदे ( ऋ० १० ५९-६ ) पुनर्जन्मनः प्रतिपादनं प्राप्यते । जीवः कर्मानुसारं पुनर्जन्म लभते ।
वैदिकदेववादः – वैदिकदेवानां विषये विशेषत उल्लेख्यमेतद् यत् — सर्वेषु देवेषु तेजः-पावनत्व- दया- दाक्षिण्य-क्षेमावहत्वादिकं सामान्येनोपलभ्यते । क्वचिद् देवा मातृपितृरूपेणापि परिकल्प्यन्ते । पितापुत्रसम्बन्धादिवर्णने देवानां काल्पनिकदेहादिवर्णनं प्राप्यते । वेदेषु न देवप्रतिमोल्लेखो न च तत्पूजाविधानम् । सर्वे देवा आयुष्याभ्युदय समृद्धिप्रदायकाः । केवलं रुद्र एवं भयमावहति ।