SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् सर्वत्राशावादसंचारः। देवानां चरित्रम् उज्ज्वलं निष्कलङ्कं च । वरुणो न्यायाशः, न जातु पापिनं क्षमते । देवयजमानयोरनुग्राहकानुग्राह्य सम्बन्धः । १७४ धार्मिकं जीवनम् — वैदिक जीवनं धर्मप्रधानम् । तत्र विविधदेवानामुपासना वर्ण्यते । यज्ञेषु देवा आहूयन्त । यज्ञेषु घृतान्न सोमक्षीरादिकमहूयत । यज्ञेषु पशुमांसाहुतिर्वर्जिताऽभूत् । सोमरसो देवानां प्रेष्ठं पेयमभवत् । उपास्यदेवेषु इन्द्राग्निवरुणमरुत् सोमाश्विनो मुख्याः । वैदिककाले ब्रह्मविष्णुमहेशा न प्रमुखदेवत्वेन गणिताः । धर्मप्रधानो वैदिकः कालः । मननचिन्तनदर्शनादिकं सर्वं धर्माश्रितमभवत् । धर्ममूलैव काव्यकृतिरपि आसीत् । आचारविचारशुद्धो - संयम - सत्यात्मचिन्तनादिषु बलमाधीयत । , " सामाजिक जीवनम् – समाज: आर्यदस्युभेदेन द्विधा विभक्तोऽभूत् । आस्तिक-धार्मिक-सदाचारादिगुणसमन्विता आर्याः, तद्विपरीताश्च दस्यवः । इमे दस्यवः शिल्पकर्मनिपुणाः । परकाले समाजो वर्णचतुष्टये विभक्तः — ब्राह्मणक्षत्रियवैश्यशूद्रप्रभेदेन । अध्यापनमध्ययनं यजनं याजन च ब्राह्मणानां मुख्यं कर्म । राष्ट्ररक्षा, शासनसंचालनं, न्यायदण्डव्यवस्था च क्षात्रं कर्म । कृषिर्गोरक्षा वाणिज्यं च वैश्यानां कर्म । समाजसेवा, शिल्पविधानं च शूद्राणां कर्म । समाजः परिवारेषु विभक्त आसीत् । परिवाराः पितृप्रधानाः । विवाहादिसंस्काराणां 'प्रादुर्भावो लक्ष्यते । एकपत्नीत्वव्रतप्रचलनं लक्ष्यते । समाजे नारीणां गौरवास्पदं - स्थानमासीत् । स्त्रीशिक्षा प्रचलनत्वादेव ऋग्वेदे एकविंशतिर्ऋऋषिका मन्त्रदर्शिकाः । स्वयंवरविवाहप्रचलनमपि प्राप्यते । शिक्षाक्षेत्रे न कोऽपि भेदभावः । पितृसम्पदि पुत्रपुत्रयोः समोऽधिकारः । आर्थिक जीवनम् - आर्थिक जीवनस्याधाररूपेण कृषि, पशुपालनं चोपलभ्येते । पशुषु गवां स्थानं सर्वोत्कृष्टम् । सैव अघ्न्या- अदिति-मातेत्यादिनामभिर्निर्दिश्यते । कृषिकर्मणि वृषभाः प्रायुज्यन्त । सेचनसाधनानि नदी -कूपजलाशय - कुल्यादीन्यभूवन् । अन्नेषु गोधूम-यव-ब्रीहि चणक-माष तिलादयो मुख्याः । कृषिकर्मातिरिक्ता वृत्तय उद्योगाश्च प्राचलन् । तद्यथा - तक्ष- हिरण्यकार-लौहकार-कर्मार-चर्मकार वासोवायादिवृत्तयः प्रावर्तन्त । व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन् । वस्तुविनिमयमूलकं क्रयविक्रयं प्राचरत् । मुद्रासु निष्कं मुख्यमासीत् । समुद्रव्यापारावस्थितिरपि विज्ञायते । सामुद्रिकधनस्योल्लेखोऽपि प्राप्यते । तत् समुद्रोपलब्धं रत्नादिकं स्यात्, समुद्रव्यापारजो लाभो वा । कुसीदवृत्तिरपि प्राचरत् । अष्टमांशः, षोडशांशो वा कुसीदरूपेणागृह्यत । राजनीतिक जीवनम् - राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत१. गृहं कुलं वा, २. ग्रामः, ३. विट् ( विश् ), ४. जनः ५. राष्ट्रम् । एतेषां स्वामिनोऽपि क्रमशः गृहपतिः, ग्रामणीः, विशाम्पतिर्विश्पतिर्वा, जनपतिः,
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy