SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ वैदिक संस्कृतिः १७५ राजा चाभ्यधीयन्त । राज्ञः कर्म राष्ट्ररक्षणं, शत्रुविनाशनं चासीत् । द्विविधा शासनप्रणाली प्राचरत् — राजतन्त्रात्मिका, प्रजातन्त्रात्मिका च । राजतन्त्रे नृपो वंशपरम्परागतः, प्रजातन्त्रे च निर्वाचितोऽभूत् । द्वयोरपि राज्याभिषेकोऽभवत् । राज्ञो निर्वाचका: 'राजकृतः ' अभ्यधीयन्त । तत्र पञ्च राजकृत:राजानः, सूतः, ग्रामणीः, रथकारः, कर्मारश्च । राजसंचालनार्थं सभा समिति - श्चेति परिषद्द्द्वयं प्रजापतेः दुहितृरूपेण प्राचलत् । ग्रामादिन्यायकृत् सभा, राज्यशासनकृच्च समिति: । समितिरेव राज्ञो शासनादवतारणे नवराजनिर्वाचने च प्राभवत् । सेयं वैदिको संस्कृतिः प्रथमा संस्कृतिरिति वेदे संस्तूयतेसा प्रथमा संस्कृतिर्विश्ववारा ( यजु० ७ - १४ ) । -
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy