________________
भारवेरर्थगौरवम्
१०७ स्वावलम्बनेनैव सततं समुन्नतिः 'विनिपातनिवर्तनक्षम, मतमालम्बनमात्मपौरुषम्' (कि० २-१३ )। .. राजनीतिविषयकाः शतशः सूक्तयोऽत्रोपलभ्यन्ते–'प्रकर्षतन्त्रा हि रणे जयश्रीः' ( ३-१७ ), 'परमं लाभमरातिभङ्गमाहुः' (कि० १३-१२), अधिकबलवता विरोधो नोचितः 'प्रार्थनाधिकबले विपत्फला' (कि० १३-६१), नीतेराश्रयणेनैव लोकप्रियत्वम् 'नयहीनादपरज्यते जनः' (कि० २-४९), नृपसचिवयोः ऐकमत्यं सर्वसिद्धिकरम् 'सदाऽनुक्लेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसंपदः' ( कि० १-५ ) । यथा च–'हितं मनोहारि च दुर्लभं वचः' ( १-४), 'सुदुर्लभाः सर्वमनोरमा गिरः' ( १४-५), 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि' ( ८-३७), 'वरं विरोधोऽपि समं महात्मभिः' (१-८), 'ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः (२-२०), 'न रम्यमाहार्यमपेक्षते गुणम्' (४-२३ ), 'कामाः कष्टा हि शत्रवः' ( ११-३५ ), 'गुणगृह्या वचने विपश्चितः' ( २-५ ), 'भवन्ति गोमायुसखा न दन्तिनः' ( १४-२२)।
एवं भारवेः प्रतिपदं भावसौष्ठवम् अर्थगाम्भीर्यं च संलक्ष्यते ।