________________
३१. दण्डिनः पदलालित्यम्
( १. कविर्दण्डी कविर्दण्डी कविर्दण्डो न संशयः । २. त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ) निर्दण्डोऽपि यो दण्डी यतिर्दशकुमारकृत् । काव्यादर्शो निरादर्शः सुन्दरीं श्रयते मुनिः ॥ १ ॥ सकषायोsपि यो दण्डी नाम्ना दण्डी न चेतसा ।
विरक्तो योऽविरक्तोऽपि यतिसंज्ञो यतिच्युतः ॥ २ ॥ ( कपिलस्य ) दण्डिनो जीवनवृत्तं कृतित्वं च - महाकवेर्दण्डिनो जीवनकालविषये सन्ति बहवो विप्रतिपत्तयः । समासतः पक्षद्वयं मुख्यत्वेनाङ्गीक्रियते । केचन ईसवीयाब्दस्य षष्ठशताब्द्या अन्तिमे चरणेऽस्य जनिमुररीकुर्वन्ति, अन्ये च सप्तमशताब्द्या उत्तरार्धे । राजशेखरेण कविरसौ प्रबन्धत्रयस्य प्रणेतेति प्रतिपाद्यते । विषयेऽस्मिन्नपि प्रचुरो विवादः । काव्यादर्शो दशकुमारचरितं चेति ग्रन्थद्वयं तु सर्वैरेव स्वीक्रियते दण्डिनः कृतित्वेन । अवन्तिसुन्दरीकथेति खण्डश उपलब्धा कृतिस्तृतीयेति मन्यते मनीषिभिः कैश्चित् ।
दण्डिनः संस्कृतसाहित्ये स्थानम् - दशकुमारचरितमाश्रित्येव अस्य महती महनीयतेति नात्र विप्रतिपत्तिविदुषाम् । गद्यकाव्यस्यैतस्य गौरवं पदलालित्यं च प्रेक्षं प्रेक्षं प्रेक्षावतां प्राप्यन्ते प्रभूतानि प्रचुरप्रशस्तिपूर्णानि पद्यानि । यथा— "कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः" इत्यादीनि । केचन वाल्मीके - र्व्यासस्य चानन्तरं दण्डिनमेव महाकवित्वेन आकलयन्ति । “जाते जगति वाल्मीक कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।” मथुराविजयमहाकाव्यस्य रचयित्री गङ्गादेवी ( १३८० ई० ) तु दण्डिनो वाचं सरस्वत्या मणिदर्पणमेव मनुते । 'आचार्य दण्डिनो वाचामाचान्तामृतसम्पदाम् । विकासो वेधसः पत्न्या विलासमणिदर्पणम् ।'
दण्डिनः पदलालित्यम् – किं नाम पदलालित्यम् ? कथं चैतेन काव्यस्य महत्त्वमभिवर्धते ? सुप्तिङन्तं पदमिति, सुबन्तं तिङन्तं वा पदमित्यभिधीयते । - ललितस्य भावो लालित्यं माधुर्यमिति । यत्र पदेषु वाक्येषु शब्दसंघटनायां माधुर्यं श्रुतिसुखदत्वं वा समुपलभ्यते, तत्र पदलालित्यमिति मन्यते । पद- लालित्यं शब्दसौष्ठवं चावर्जयति सचेतसां चेतांसीति गुणोऽयं गरिमाणं तनुते काव्यस्य । दशकुमारचरिते दृश्यते गुणस्यैतस्य गौरवम् । तच्चेह समासतो व्याचिख्यासितम् ।
मृद्वीका रस-भारभरितेव भारती दण्डिन आचार्यस्य । सुधीभिरास्वादनीयं समीक्षणीयं चैतस्या माधुर्यम् । राजहंसस्येव राज्ञो राजहंसस्य सुषमां समव