________________
दण्डिनः पदलालित्यम्
१०९. लोकयन्तु सन्तः। "अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासंभारभासुरभूसुरनिकरः,.... 'राजहंसो नाम घनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्यनिरवद्यरूपो भूपो बभूव" (पूर्वपीठिका उच्छ्वास १) । राजहंसस्य महिषी वसुमती ललना-- कुलललामभूताऽभूत् । “तस्य वसुमती नाम सुमती लीलावतो कुलशेखरमणी रमणो बभूव" ( पूर्वपीठिका उच्छ्वास १ )। ___मालवेश्वरस्य प्रस्थानवर्णनं कुर्वताऽभिधीयते तेन-'मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम" ( पूर्वपो० उ० १ ) राजहंसश्च मालवराजचमं स्वसैन्यसहितोऽवारुणत् । 'राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध" (पूर्वपी० उ० १ )।
विजयार्थं प्रस्थातुकामानां कुमाराणां यमकालंकारालंकृतं वर्णनमदो दण्डिनो वाग्वैभवमेवाविर्भावयति । "कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षः" (पूर्वपी० उ०२)। ऐन्द्रजालिककृतेन्द्रजालप्रदर्शनरूपेण फणिनां वर्णनमेतत्-'तदनु विषमं विषमुल्बणं वमन्तः फणालंकरणा रत्नराजिनीराजित राजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः' (पूर्वपी० उ० ५)।
कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः-दण्डिनो भावभाषामाधुर्यं रचनाकौशलं मनोभावाभिव्यञ्जनदक्षत्वं रसप्रवणत्वं सालंकृतत्वं च निरीक्ष्य विपश्चित्तल्लजैः दण्डी एव कविपदमहतीति 'कविर्दण्डी' इति सादरम् उद्घोष्यते । निदर्शनरूपेण केचन सन्दर्भाः प्रस्तूयन्ते ।
आस्तरणमधिशयानाया राजकन्याया वर्णनमेतद् दण्डिनः सूक्ष्मेक्षिकया ईक्षणं वर्णनवैदग्ध्यं चाविष्करोति । 'अवगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु..... कुसुमलवच्छरितपर्यन्ते पर्यङ्कतले...'ईषद्विवृतमधुरगुल्मसंधि, आभुग्नश्रोणिमण्डलम्, अतिश्लिष्टचीनांशुकोत्तरीयम्, अनतिवलिततनुतरोदरम्, अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्... 'चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनी राजकन्यामपश्यत्' ( उत्तर पी० उ० २)।
राज्ञो धर्मवर्धनस्य दुहितरमुपवर्णयति । 'तस्य दुहिता प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः, सौकुमार्य-विडम्बितनवमालिका, नवमालिका नाम कन्यका' ( उ० पी० उ० ५ ) । गिरिवरं च वर्णयन्नाह–अहो रमणीयोऽयं पर्वतनितम्बभागः, कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्द-बिन्दु-चन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्ण-कुसुममञ्जरीभरस्तरुवनाभोगः।'