SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कविकुलगुरुः कालिदासो विलासः रघुवंशे इन्दुमतीनिधन-विषण्णस्य राज्ञोऽजस्य वर्णनं समस्यापि सचेतसः करुणाद्रवत्वं संचारयति । तद्यथा विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ रघु० ८-४३ लगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद् भवेदमृतं वा विषमीश्वरेच्छया ॥ रघु०८-४६ सीता-शोक-सहानुभूतिपराः पशुपक्षिणोऽपि भक्ष्यादित्यागेन स्वसमवेदनां प्रकटयन्ति । नृत्यं मयूराः कुसुमानि भृङ्गा दर्भानुपात्तान् विजहुर्हरिण्यः। तस्याः प्रपन्ने समदुःखभाव-मत्यन्तमासीद् रुदितं वनेऽपि ॥ रघु० १४-६९ कालिदासस्य भाषा भावानुसारिणी रसानुकूला च । वर्ण्यविषयानुरूपा तस्य पदावली। क्वचित् शब्दध्वनिना भावध्वनिः अभिव्यज्यते । पदमाधुर्य संगीतात्मकत्वं लयात्मकत्वं च पदे पदेऽवलोक्यते । शृङ्गाररसवर्णने भाषासौष्ठवं पदलालित्यम् अनुप्रासाद्यलंकारालंकृतत्वं च प्रेक्ष्यते। सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। मधुकरैरकरोन्मधुलोलुपै-र्बकुलमाकुलमायतपङ्क्तिभिः ॥ रघु० ९-३० मेघे माघे गत वयः-कालिदासकृत-मेघदूतस्य माघकृतशिशुपालवधस्य च मनोज्ञत्वं भावमधुरत्वं वर्णनवेशद्यं शृङ्गाररसपरिपाकं चावलोक्य सरसहृदयो भावुकश्च कविस्तत्रैव रमते । अतएवोच्यते-'मेघे माघे गतं वयः। ___मेघदूते भावानां गरिमा, विचाराणां महिमा, कल्पनायाः कमनीयता, चेतसो विशदता, भाषायाः प्राञ्जलता, अनुभूति-संवेदनशीलत्वम्, पदावल्या मधुरिमा, विप्रलम्भशृङ्गारस्य सात्त्विकता सघनता च, अलंकाराणाम् ऐन्द्रधनुषी प्रभा, मन्दाक्रान्तावृत्तस्य मन्थरगतिः, नवपरिधानाया नववध्वा लावण्यमिव प्रस्तौति । सहृदयहृद्यताहेतोः मेघदूतं निर्विवादं लोकप्रियम् । वैदर्भी रीतिरत्र । अतएवात्र ललितपदविन्यासस्य, कोमलभावस्य, सरसपदावल्याः, प्रसादगुणस्य च समन्वयः प्राप्यते । निर्विन्ध्याया नद्या वर्णनं कथमिव मेघस्य प्रेयसीरूपेणोपस्थाप्यते । वीचिक्षोभस्तनितविहग-श्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः । निविन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ मेघ० १-२९ यक्षश्चित्रापितायाः प्रियायाः पादपद्मयोरात्मानं समर्पयितुकामः, परम् अश्रुधारा तत्रापि प्रत्यवायरूपेण उपतिष्ठते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy