________________
१४८
संस्कृत निबन्धशतकम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥
शाकु० २-१० निर्गतासु न वा कस्य० - - - कालिदासप्रशस्ति विरचयता बाणेन सत्यमिदम् उच्यते यत् —'निर्गतासु न वा कस्य, कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते' ( हर्ष० श्लोक १६ ), कालिदासस्य सूक्तयो मधुराः सरसा मञ्जर्यं इव सचेतसां चेतांसि हरन्ति । स यं कमपि विषयम् आश्रयते तत्रैव चमत्कृतिं रम्यत्वं च साधयति । सूर्योदयस्य चन्द्रास्तमयस्य च वर्णनं कस्य विपश्चितो न मनो मोहयति । कालचक्रं सुखदुःखपरिवर्तनेन जगद् नियमयति ।
यात्येकतोऽस्तशिखरं पतिरोषधीना
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
लोको नियम्यत इवात्मदशान्तरेषु ॥ शाकु० ४-२ दुष्यन्त-विहीना शकुन्तला विधुपरिहीणा कुमुदिनीव संतप्तचित्ता । नहि कामिनी इष्टजनवियोगं सोढुम् ईष्टे ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टि न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि
नूनमतिमात्रसुदुःसहानि ॥ शाकु० ४-३
क इह रघुकारे न रमते — कालिदासस्य नाट्यकौशलं यथा शाकुन्तले संलक्ष्स्यते, तथैव तस्य कवित्वपरिपाको रघुवंशमहाकाव्ये निरीक्ष्यते । रघुवंशं हि कालिदासस्य मृद्वीकारसमधुरा, सरसा, सालंकृतिः, रसभावसमुज्ज्वला, उपमाप्रयोगभास्वरा सूर्यवंशज - नृप - गुणानुवाद-द्युतिमती सहृदयहृद्या कृतिः । रघुवंशमेवाश्रित्य 'कविः कालिदासः' इति भण्यते । उदयसुन्दरीकथाकारः सोड्ढलो रघुवंशमाश्रित्य तस्य अमरत्वं विश्वविश्रुतत्वं च प्रतिपादयति ।
ख्यातः कृती सोऽपि च कालिदासः शुद्धा सुधा स्वादुमती च यस्य । वाणीमिषाच्चण्डमरीचिगोत्र - सिन्धोः परं पारमवाप कीर्तिः ॥ सोड्ढलः रघुवंशे दीपशिखावर्णनेन स दीपशिखात्वम् अवाप । इन्दुमती दीपशिखेव यं यं नृपम् उज्झितवती स स भूमिपालो विषण्णवदनत्वं लेभे ।
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपालः ॥ रघु० ६-६७