SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ४१. कविकुलगुरुः कालिदासो विलासः ( क. क इह रघुकारे न रमते, ख. मेघे माघे गतं वयः) विलासिनीलासमनोभिरामा, रामार्पितश्रीः श्रितसौकुमार्या । सालंकृतिर्वाग्वनिता विभाति, श्रीकालिदासस्य कलाकलापैः॥ (कपिलस्य) कालिदासस्य कवित्वम्-कविकुलगुरोः कालिदासस्य विषये प्रसन्नराघवे (१-२२) जयदेवभणितिरेषा । कविताकामिनीकान्तः कालिदासो न केवलं संस्कृतवाङ्मयस्य, अपि तु विश्ववाङ्मयस्य, मुकुटालंकारः। तस्य सूक्ष्मक्षिका बाह्यजगतोऽन्तर्जगतश्च तत्त्वजातं साक्षात्कुर्वन्ती सरसपदावल्याम् अनुस्यतां विधत्ते । तस्य कलात्मिका तूलिका नीरसेऽपि सरसताम्, कर्कशेऽपि कोमलताम्, कठोरेऽपि सुकुमारताम्, दुर्बोधेऽपि सुबोधताम् आपादयति । तस्य कलात्मिका रुचिः प्रतिपदं संलक्ष्यते। भाषायाम् असाधारणोऽधिकारस्तस्य काव्यं ध्वन्यात्मकं विधत्ते । भावानाम् अगाधता विविधता च काव्याकाशे ऐन्द्रधनुषीम् आभां संचारयति । तस्य भाषारूपा कालिन्दी, भावरूपा भागीरथी, सालंकृतपदावलीरूपा सरस्वती च संगमस्य महनीयं वैभवम् उपस्थापयति । ___ तस्य शैल्यां भाषासौष्ठवम्, मनोज्ञा भावाभिव्यक्तिः, अलंकाराणां सहजो विन्यासः, बाह्याभ्यन्तरप्रकृतेश्चारुचित्रणम्, रसानां मधुरः परिपाकः, जीवनदर्शनस्य रुचिरा स्थापना, विविधविद्यानिधानत्वम्, मनोभावानां मार्मिकी अनुभूतिश्च मनोज्ञं मणि-काञ्चन-संयोगम् उपस्थापयति । प्रकृत्या सह तादात्म्यानुभूतिस्तस्य काव्यगौरवं समेधयति । तस्य शैल्यां क्वचिद् उपमानां लालित्यम्, क्वचिद् अर्थान्तरन्यासस्य गाम्भीर्यम्, क्वचिद् उत्प्रेक्षाणां गगनचुम्बित्वम्, क्वचित् प्राञ्जलपदावली-सौकुमार्यम्, क्वचित् प्रसादः,क्वचिद् माधुर्यम्, क्वचित् कलाप्राधान्यम्, क्वचिच्च कल्पनाभिरामत्वं दरीदृश्यते । तथ्यनिरूपणप्रवणा हार्दिकभावोज्ज्वला कविता-कामिनी-स्वरूपनिरूपणपरा कालिदास-कृतिः कविताकामिन्या विलासत्वेन गण्यते। कालिदासः स्वकृतिभिः सर्वस्यापि जगतो वन्द्यताम् आपन्नो निर्विवादं स 'कविकुलगुरुः' इति सादरम् उद्घोष्यते। कालिदासस्य काव्येषु कवितावनिताया नैसर्गिक सौन्दर्यम्, अकृत्रिमा सुषमा, मनोरमं चारुत्वं च प्रतिपदं संलक्ष्यते । विविधरसपरिपाकः, प्राधान्येन शृङ्गाररसपरिपाकः, कस्य न कृतिनो भावततिम् उद्बोधयति आविर्भावयति च । प्रेक्ष्यं तावत् शकुन्तलाया अपूर्वम् अलौकिकम् अनाघ्रातम् अनाविद्धं च रम्यत्वम् । अनानातं पुष्पं किसलयमलूनं कररुहै रनाविद्धं रलं मधु नवमनास्वादितरसम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy