SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ भारतीया संस्कृतिः १७७ तत्त्वानि यमाख्यया व्याख्यातानि शास्त्रेषु धर्मपदवाच्यानि । तदेवोच्यते'धारणाद्धर्म इत्याहुर्धर्मो धारयते प्रजाः । यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः' । यमास्तु व्याख्याता योगदर्शने–'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (योग० २-३०)। अहिंसायाः समाश्रयणम्, सत्यस्य परिपालनम्, अस्तेयवृत्त्या आश्रयः, ब्रह्मचर्यव्रतस्यानुष्ठानम्, अपरिग्रहव्रतस्य पालनं च यम इत्युच्यते । एतेषां व्रतानामाश्रयेण मानव: समाजो देशो जगदिदं च सततमन्नति लप्स्यत इति तानि विश्वजनीनधर्मपदेन वाच्यानि । एत एव यमाः शाश्वतिकाः सार्वभौमाः महाव्रतमित्युच्यन्ते–'जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (योग० २-३१)। यश्चै हिकमामुष्मिकं चोभयं क्षेममावहति स धर्म इति व्यवस्थापितं वैशेषिकदर्शनकृता. कणादेन-'यतोऽभ्युदयनिःश्रेयस-. सिद्धि स धर्मः'। यतोऽभ्युदयोऽर्थात् ऐहिकी लौकिकी भौतिकी वा समुन्नतिः समुपलभ्यते, निःश्रेयसावाप्तिर्मोक्षाधिगमश्च भवति पारलौकिकं च सुखमाप्यते स एव धर्मपदेन वाच्यः । एतदेव मनसिकृत्य मनुना धृत्यादयो दश गुणा धर्मनाम्ना व्याख्याताः। तद्यथा-'धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम्' ( मनु० )। २. आध्यात्मिको भावना-जीवनमतन्न केवलं भोगार्थमेव, अपित्वात्मोन्नतेः प्रमुखं साधनम् । आध्यात्मिकी भावना मानवं देवत्वं प्रापयति । स सर्वेष्वपि जोवेष्वेकत्वं समीक्षते । समग्रमपि प्राणिजातं परेशेनैवोत्पादितमिति विचारं विचारं तत्रैकत्वमनुभवति । जगदिदं परमात्मना व्याप्तम् । 'ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्' (ईशोपनिषद् १) । 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते । ईशोप०६)। 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः' (ईशोप० ७) । अध्यात्मप्रवृत्त्या जीवनमुन्नतं भवति । सर्वत्रैकत्वदर्शनेन न मानवः शोकाभिभूतो भवति । स प्रतिपदमानन्दमनुभवति । निखिलमपि संस्कृतवाङ्मयं व्याप्तं भावनयाऽनया । भावनैषा चेतः प्रसादयति, आत्मानं मोक्षाधिगमं प्रति प्रेरयति । उपनिषत्सु गीतायां चास्या भावनाया वर्णितं विविधं महत्त्वम् । अध्यात्मप्रवृत्त्या प्रवर्तते मनसि सहृदयता सहानुभूतिरौदार्यादिकं च । ३. पारलौकिकी भावना-जगदिदं विनश्वरं, कीतिरेवैकाऽविनाशिनी। भौतिका विषया इमे आपातरम्या पर्यन्तपरितापिनश्च । 'आपातरम्या विषयाः पर्यन्तपरितापिनः' (किराता० ११-१२)। एषामाश्रयणेन पतनं सुलभम्, दुःखावाप्तिः सुलभा, सुखं तु नितरां दुर्लभम् । एतस्मादेव हेतो/राः बीराः सुकृतिनश्च कर्तव्यं प्रमुखं मन्वाना विषयसुखानि विहाय, प्राणान् तृणवद् गणयन्तः समरादिषु वीरगति लेभिरे ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy