________________
१७८
संस्कृतनिबन्धशतकम्
४. सदाचारपालनम-'आचारः परमो धर्म' इति सिद्धान्तमाश्रित्य सदाचारः सर्वोत्तमं तप इति स पालनीयः ! अत उक्तं महाभारते-'वृत्तं यत्नेन संरक्षेद वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः' । ब्रह्मचर्यादिपालनेनेन्द्रियनिग्रहो मनसो दमश्च साधनीयौ। सदाचारपालने ब्रह्मचर्यस्य विशिष्टं महत्त्वम् । ब्रह्मचर्यव्रतस्याश्रयणेन न केवलं शारीरिकी समुन्नतिरवाप्यते, अपितु मानसिकी, बौद्धिकी, आध्यात्मिकी चापि समुन्नतिः सुतरां सुलभा। देवा ब्रह्मचर्यव्रतपालनेनैव मृत्युमपि वशीकृतवन्तः । 'ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत' ( अथर्व०)। देवा ब्रह्मचर्येणैवानन्दमधिगतवन्तः । 'इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्' ( अथर्व०)। चरित्ररक्षा, शीलरक्षा, संयमो दमो मनसो वशीकरणमिन्द्रियाणां नियमनं चेत्यादिगुणाः सदाचारपालने विशेषतोऽवधेयाः ।
(५) वर्ण-व्यवस्था-ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वार इमे वर्णाः । वेदानां वेदाङ्गानां चाध्ययनमध्यापन, यजनं, याजनं, विद्याया धनस्य च दानं, धनादिदानस्य स्वीकरणं च ब्राह्मणस्य कर्तव्यम् । 'अध्यापनमध्ययनं यजनं याजनं तथा। दानं प्रतिग्रहश्चैव ब्रह्मकर्म स्वभावजम्' (मनु०) । 'शमो दमस्तपः शौचं शान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्' ( गीता १८-४२) । देशस्य समाजस्य च रक्षणं क्षत्रियस्य परमो धर्मः । स विपत्तेः क्षताद् वा लोकं त्रायते। अतः साधु निगदितं कविवरेण्येन कालिदासेन–क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः' ( रघु० ) । 'शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' (गीता १८-४३) । देशस्य जनतायाश्च मनोरञ्जनत्वादेव राजा राजते । 'राजा प्रकृतिरञ्जनात् ।' कृषिर्गोरक्षा वाणिज्यं च वैश्यस्य प्रमुखं कर्म । 'कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ( गीता १८-४४) । एषु कर्मसु वैश्यैः समुन्नतिः कार्या । श्रमसाध्यं शारीरिकं च कार्य शूद्रस्य प्रधानं कर्तव्यम् । 'परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्' ( गीता १८-४४) । यो यादृशं कर्म कुरुते तादृशं वर्णमवाप्नोति । सर्वे वर्णाः स्वं स्वं कर्म विदधीरन् । इदमिहावधेयम्-आर्यसंस्कृतौ वर्णव्यवस्था स्वीक्रियते, न तु जातिप्रथा । जन्मना जातिरिति, कर्मणा वर्ण इति । वर्णो वृणोतेः । जनो यत् कर्म वृणोति, स तस्य वर्णः । जातिप्रथा सदोषा, हेयोपेक्ष्या चे, परं वर्णव्यवस्था निर्दोषोपादेया च ।
(६) आश्रमव्यवस्था-ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्चत्वार एते आश्रमाः । स्ववयोऽनुरूपमाश्रममाश्रयेत्, तदाश्रमनिर्दिष्टनियमान् पालयेच्च । आपञ्चविंशतिवर्षं ब्रह्मचर्याश्रमः । विद्याध्ययनं, तपोमयजीवनयापनं सर्वविधगुणानां सङ्ग्रहश्चाश्रमेऽस्मिन् प्रधानं कर्तव्यम् । आपञ्चाशद्वर्षं गृहस्थाश्रमः । भौतिकी शारीरिकी मानसिकी च समुन्नतिः, भौतिकविषयाणामुपभोगः, दाम्पत्यजीवनयापनं, वंशप्रतिष्ठायै सन्तानोत्पत्तिश्चाश्रमेऽस्मिन् विशिष्टं कर्म ।