________________
भारतीया संस्कृतिः
१७९
पञ्चाशद्वर्षानन्तरं वानप्रस्थाश्रमे प्रवेशः । सपत्नीकेनेश्वराराधनं, संयमपालनं, योगादिकर्मसु विशिष्टा प्रवृत्तिश्च तत्र प्रमुखं कर्म । षष्टिवर्षानन्तरं यदैव वैराग्यभावना समुत्पद्यते, तदैव संन्यासाश्रम आश्रयणीयः । ' यदहरेव विरजेत् तदहरेव प्रव्रजेत्' । भौतिकविषयान् परित्यज्य योगाभ्यासे रतिः, पुण्यार्जने प्रवृत्तिः, समाधौ मनसः स्थितिः, लोकोपकरणे च विनियुक्तिः, परिव्राजकानां प्रथमं कर्तव्यम् ।
( ७ ) कर्मवादः - मनुष्येण सदाऽनासक्ति भावनया कर्म कार्यमिति । कृतस्य कर्मणः फलावाप्तिः सुनिश्चिता । सत्कर्मणा पुण्यं, दुष्कर्मणा पापं चाप्नोति । 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ' । 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनैव' ( बृहदारण्यकम् ) । मानवः कर्मानुसारं शुभं वाऽशुभं वा जन्म लभते । सुकृतं क्रियते चेत् सत्फलं लभ्यते, दुष्कृतं क्रियते चेत् कुफलं प्राप्यते । सर्वास्ववस्थासु कर्मणां फलमवश्यमवाप्यते । अतस्तादृशं कार्यं कार्यं यथा जीवने दुःखावाप्तिर्न स्यात् ।
( ८ ) पुनर्जन्मवादः –— कर्मानुरूपं सर्वस्यापि जन्तोः पुनर्जन्म भवति । 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ' ( गीता २-२७ ) । यो हि जायते तस्य मरणं ध्रुवमेवास्ति । मृतस्य च कर्मानुसारं पुनर्जन्म सुनिश्चितम् । यः पूर्वजन्मनि यादृशं कर्म कुरुते, सोऽस्मिन् जन्मनि तादृशे एव कुले परिवारे च जन्म लभते । प्रतिभादिवैशिष्ट्यं विशिष्टगुणादिसमन्वितत्वं तद्वैपरीत्यं च पूर्वजन्मकृतकर्मविपाक एवेत्यवगन्तव्यम् । ज्ञानाग्निदग्धकर्माणः केचन यतयो निःश्रेयसमधिगच्छन्ति ।
(९) मोक्षः - मोक्षावाप्तिः परमः पुरुषार्थः । मोक्षमधिगम्य न च पुनरावर्तन्ते मुनयः । केषांचित् मतेन नियतकालं निःश्रेयससुखमुपभुज्य तेऽप्यावर्तन्त इति । ज्ञानाग्निना सर्वकर्मप्रदा हे मोक्षावाप्तिर्भवतीति ।
(१०) श्रुतीनां प्रामाण्यम् - वेदाश्चत्वारः स्वतः प्रमाणस्वरूपाः ग्रन्थाः, अन्ये तु तन्मूलकं प्रामाण्यं लभन्तेऽतस्ते परतः प्रमाणरूपाः । श्रुत्युक्तदिशा कर्मानुष्ठानेन श्रेयोऽवाप्तिस्तदन्यथाऽऽचरणेन दुःखाधिगमश्च ।
(११) यज्ञस्य महत्त्वम् — सर्वैरेव जनैः पञ्च यज्ञाः दैनिककर्तव्यत्वेनानुष्ठेयाः । यज्ञानुष्ठानेनात्मप्रसादनं देवप्रसादनं चोभयं क्रियते । पञ्चयज्ञाः सन्ति - ( क ) ब्रह्मयज्ञः — सन्ध्योपासनमीश्वरोपासनं च, ( ख ) देवयज्ञ: - दैनिकयागस्यावश्यकर्तव्यता, (ग) पितृयज्ञः मातुः पितुश्च सततं परिचर्या, तयोराज्ञापालनं च, (घ) बलिवैश्वदेवयज्ञः - परिपक्वस्य भोजनस्याल्पेनांशेन मन्त्रपूर्वकम् अग्नावाहुतिः कीटादिभ्योऽन्नप्रदानं च, (ङ) अतिथियज्ञः-‘अतिथिदेवो भव' इति शास्त्रमनुसृत्यातिथीनां शुश्रूषा, सत्करणं च ।
,