SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ $40 संस्कृतनिबन्धशतकम् ( १२ ) सत्यपरिपालनम् - - मनसा वाचा कर्मणा सत्यमुररीकुर्याद् अनुतिष्ठेच्च । सर्वदा सत्यं व्यवहरेत्, नासत्यम् । सत्यमेव शाश्वतं विजयं लभते, नासत्यम् । तथोक्तम्--'सत्यमेव जयते नानृतम्' । 1 (१३) अहिंसापालनम् — 'अहिंसा परमो धर्मः' इत्यहिसैव श्रेष्ठधर्मत्वेनाङ्गीक्रियते । अहिंसयैव साध्या विश्वशान्तिः । जनहितं विश्वहितं चेप्सताऽजस्रं मनसा वाचा कर्मणा चाहिंसाधर्मः पालनीयः । ( १४ ) त्यागस्य महत्त्वम् - अनासक्तेनात्मना जगति व्यवहरेत्, न परस्वमीप्सेत् । पुरुषार्थोपार्जितमेवोपभुञ्जीत । तथा चोक्तं वेदे - ' तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् (यजु० ४०–१ ) । (१५) तपोमयं जीवनम् - तपसैव शुध्यति जीवनम् मनश्च प्रसीदति । भोगवासनाभिर्विषीदति स्वान्तम् । मनसो बुद्ध्याश्च परिष्काराय सततं तपोमयं जीवनं यापयेत् । (१६) मातृपितगुरुभक्तिः - मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव इत्येतेषां देववत् पूज्यत्वमाख्यायते । शुश्रूषयैवेषां सिध्यति सकलमिह संसृतौ । मातुः पितुर्गुरूणां चादेशोऽनवरतं पालनीयः । ते एव मानवस्य सर्वोत्तमं शुभचिन्तकाः । तेषामाज्ञानुसारमेव व्यवहर्तव्यम् । विश्वहितस्य विश्वोन्नतेश्च सर्वा एव मूलभूता भावनाः संस्कृतावस्याम् उपलभ्यन्ते । एतासामाश्रयणेन सर्वविधा समुन्नतिः सुलभा राष्ट्रस्य विश्वस्य च। गुणवैशिष्ट्यमेवैतस्याः समीक्ष्य समाद्रियते विश्वसंस्कृतावियम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy