SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ५० संस्कृतिः संस्कृताश्रया .. १. संस्कृतं भारतीयसंस्कृतिश्च, २. संस्कृतं भारतीयसंस्कृतेर्मूलमाधत्ते।) संस्कृतं संस्कृतेर्मलं ज्ञानविज्ञानवारिधिः। वेदतत्त्वार्थसंजुष्टं लोकाऽऽलोककरं शिवम् ॥ ( कपिलस्य ) संस्कृतेः स्वरूपम्-का नाम संस्कृतिः ? परिष्करणं, संस्करणं, दुरितव्यपोहनम्, दुर्भावदहनं च संस्कृतिरिति । संस्कृतिहि जीवनोन्नतिसाधिनी, सद्गुणग्राहिणी, सत्पथविहारिणी, ज्ञानज्योतिःप्रचारिणी च। यथा कृषिकर्मणि तृणादिहेयपरिहारेण अभीष्टाकुरादिरक्षणं तथैव संस्कृत्या दुर्भावनिरोधपूर्वकं दुर्गुणदमनपुरःसरं च सद्गुणरत्नसङ्ग्रहोऽनुष्ठीयते।। _ संस्कृतिः संस्कृताश्रया-वेदेषु, धर्मसूत्रेषु, उपनिषत्सु, दर्शनेषु, स्मृतिग्रन्थेषु च महता विस्तरेण पुरुषार्थचतुष्टयस्य, कर्तव्याकर्तव्यस्य च विवृतिरुपस्थाप्यते । वेदेषु अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनाम् अवश्यकर्तव्यत्वेन निर्देश उपलभ्यते। वेदमूलकमेव उपनिषदादीनामनुशासनम् । उपनिषत्सु आत्मज्ञानं ब्रह्मप्राप्तिर्वा परमकर्तव्यत्वेन निर्दिश्यते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्' (बृहदा० ५।५।१५) धर्मस्य स्वरूपं विवेचयता वैशेषिकदर्शनकृता कणादेन व्यवस्थापितं यत् येन ऐहिकमामुष्मिकं च क्षेममासाद्यते स धर्मः। ( यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः)। ईश्वरास्तित्वम्, अनास्तिक्यं, धर्मबुद्धिश्चेति संस्कृताश्रयायाः संस्कृतेवैशिष्टयम् । अत एव यजुर्वेदे ईशोपनिषदि च निगद्यते 'ईशावास्यमिदं सर्वम्'० ( यजु० ४०।१ ) । ब्रह्मसाक्षात्कारः यदि जीवनेऽस्मिन् न क्रियते तहि जीवनस्य नैष्फल्यमेव । ब्रह्मज्ञानेनैव जीवनस्योपयोगित्वम् । इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः, प्रेत्यास्माल्लोकादमृता भवन्ति ॥ केन० २-५ जीवने कर्तव्यनिष्ठता, अनासक्तिभावनया कर्मणि प्रवृत्तिश्च जीवनस्य साफल्यं दिशति । भगवद्गीतायामपि एतदेव सैद्धान्तिकरूपेणोपदिश्यते । कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। ( यजु० ४०-२) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भर्मा ते सङ्गोऽस्त्वकर्मणि ॥ (गीता २-४७) एषैव संस्कृतिलॊकेषु विश्वबन्धुत्वभावनां जागरयति । समत्वदृष्टिसम्पादनेन च स्वपरहितविभेदनिवारणद्वारा सार्वभौतिकी, सार्वलौकिकी चोन्नति निर्दिशति
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy