________________
काव्यस्यात्मा ध्वनिः
'बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः।' काव्यप्रकाश १-४ ।
ध्वनिरात्मा काव्यस्य--अभिधा-लक्षणा-व्यापारानन्तरं व्यञ्जनावृत्तिः स्वीक्रियते । व्यञ्जनायाः प्राधान्येन काव्ये कल्पनायाश्चिन्तनस्यानुभूत्यादितत्त्वानां च समावेशोऽभूत् । कल्पनाया अभावे लक्षणाया व्यञ्जनाया वा प्रवृत्तिर्न प्रसरति । नानुभूति विना भावावेशः, भावावेशमन्तरेण न लक्षणा व्यञ्जना वोद्भवति । व्यञ्जना-शक्ति: काव्ये प्रभविष्णुतां रमणीयतां रागात्मकतां च सन्निवेशयति । तदैव काव्ये रमणीयत्वं जायते ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः। शिशु० ४-१७
तादृशी रमणीयता काव्ये व्यञ्जनाशक्ते: ध्वनेर्वा संजायते । यथा रमणीशरीरे लावण्यम्, मेघे विद्युत्, चन्द्रमसि ज्योत्स्ना, उषसि ज्योतिर्वाऽन्तनिहिता, तथैव काव्ये ध्वनेरधिष्ठानम् । ध्वनितत्त्वं न काव्यस्यावयवरूपम्, अपि तु अवयविरूपेण आत्मरूपेण वा प्रतितिष्ठति ।
काव्यशास्त्रे अभिधा लक्षणा व्यञ्जना चेति तिस्रो वृत्तयः स्वीक्रियन्ते । अभिधा वाच्यार्थप्रधाना, लक्षणा लक्ष्यार्थप्रधाना, व्यञ्जना व्यङ्ग्यार्थप्रधाना च । व्यञ्जनाशक्तेः स्वीकरणे ये दोषा विविधैः शास्त्र रुद्भाविताः, ते दोषा आनन्दवर्धनेन ध्वन्यालोके मम्मटेन च काव्यप्रकाशे निरस्ताः । उक्तं च
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते । फले शब्दैकगम्येऽत्र व्यञ्जनानापरा क्रिया ॥ काव्यप्रकाश २-१४ नाभिधा समयाभावात्, हेत्वभावान्न लक्षणा । काव्य० २-१५ विरतास्वभिधाद्यासु ययार्थो बोध्यते परः।
सा वृत्तिय॑ञ्जना नाम शब्दस्यादिकस्य च ॥ सा० दर्पण २-१२, १३
व्यञ्जना द्विविधा-शाब्दी आर्थी च । तत्र शाब्दी द्वेधा-अभिधामूला लक्षणामूला च । आर्थी व्यञ्जना च वक्तृ-बोद्धव्यादीनां वैशिष्ट्याद् अन्यदर्थ बोधयति ।
. ध्वनेर्भेदाः-ध्वनेर्मुख्यतया द्वौ भेदी स्त:-(१) लक्षणामूलो ध्वनिः, अविवक्षितवाच्यध्वनिर्वा । (२) अभिधामूलो ध्वनिः, विवक्षितान्यपरवाच्यध्वनिर्वा। लक्षणामूले ध्वनौ वाच्यार्थस्य विवक्षा प्रयोजनं वा न भवति । व्यङ्ग्यार्थो लक्ष्यार्थम् आश्रित्यावतिष्ठते । अस्यापि द्वौ भेदौ-अर्थान्तरसंक्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृत-वाच्यध्वनिश्च । अर्थान्तरसंक्रमिते वाच्यार्थ: स्वार्थ बोधयन्नपि अर्थान्तरं संक्रांमति । अत्यन्ततिरस्कृते वाच्यध्वनी च वाच्यार्थः सर्वथा तिरस्क्रियते । लक्षणामूलश्चैष ध्वनिः ।
अभिधामूले विवक्षितान्यपरवाच्ये ध्वनौ वा व्यङ्ग्यार्थो वाच्यार्थम्