SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् एतदाश्रित्येव लावण्यलक्षणमपि प्रस्तूयते यत्मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । संलक्ष्यते यदङ्गेषु तल्लावण्यमिहोच्यते ॥ इयं व्यङ्ग्यार्थबोधनक्षमतैव प्रतिभावैशिष्टयेन महाकवीनां यशः प्रसारयति । व्यङ्ग्यार्थाभिव्यक्तिरेव महाकवित्वस्य निकष: । अतो ध्वनिकृतोच्यतेसरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभा विशेषम् ॥ ध्वन्या० १-६ ६८ व्यङ्ग्यार्थस्य तथा वैशिष्ट्यं यथैष नीरसं सरसम्, असुन्दरं सुन्दरम् अमधुरं मधुरं जनयति । ध्वनिसिद्धान्तस्य स्थापना व्याकरणं, विशेषतो भर्तृहरिकृतं वाक्यपदीयम्, आश्रित्य वर्तते । वाक्यपदीये नादस्फोटयोः स्वरूपं निरूप्यतेयः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ वाक्य ० १ - १०३ तत्रोच्चारणावयवानां संयोगेन विभागेन च यः शब्द उत्पद्यते स स्फोटः, अन्ये च शब्दजाः शब्दा ध्वनिशब्दवाच्याः । घण्टानादादिषु अनुरणनरूपः शब्दो यथा, तथैव शब्दजी व्यङ्ग्योऽर्थो ध्वनिरित्युच्यते । स्फोटनादयोः व्यङ्ग्यव्यञ्जकसंबन्धो मन्यते, तथैव काव्येऽपि ध्वनेर्व्यञ्जकत्वं प्रतीयमानस्यार्थस्य च व्यङ्ग्यत्वं सिध्यति । ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावेन तथैव स्फोटनादयोः ॥ वाक्य ० १-९८ नाहितबीजायां बुद्ध अन्त्यवर्णश्रवणेन समं शब्दस्य रूपमवधार्यते ॥ ध्वनिरेव शब्दस्वरूपं प्रकाशयति । नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्त परिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ वाक्य० १-८५ प्रत्ययैरनुपाख्येये ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ वाक्य० १-८४ स्फोटव्यञ्जका वर्णा ध्वनिनाम्ना व्यवह्रियन्ते, एवं व्यञ्जकशब्दार्थयोः ध्वनित्वं सिध्यति । लोचनकृता अभिनवगुप्तेन ध्वनेः पञ्चस्वरूपार्थं व्याकरणस्य ऋणित्वं स्वीक्रियते । अतएव आनन्दवर्धनाचार्येण मम्मटेन च वैयाकरणप्रशंसायाम् उच्यते— ‘प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात् सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति ।' ध्वन्यालोक १-१३
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy