________________
२०. काव्यस्यात्मा ध्वनिः
(ध्वनि-सिद्धान्तः) । को ध्वनिः-ध्वनिशब्दो बहुधा निरुच्यते । निर्वचनानुसारं चास्य बहवोऽर्था गृह्यन्ते । पञ्चधा निर्वचनेन पञ्चापि ध्वनिसंबद्धा अर्था गृह्यन्ते । तद्यथा(१) ध्वनति यः स व्यञ्जकः शब्दो ध्वनिः। (२) ध्वनति, ध्वनयति वा यः स व्यञ्जकोऽर्थः ध्वनिः। ( ३ ) ध्वन्यते इति ध्वनिः । यद् ध्वन्यते इत्यनेन रसालंकारवस्तुरूपं व्यङ्ग्यार्थत्रयम् उपतिष्ठते । (४) ध्वन्यते अनेनेति ध्वनिः, इत्यनेन व्यञ्जनादिशक्तीनां ग्रहणम् । (५) ध्वन्यतेऽस्मिन्निति ध्वनिः, इत्यनेन व्यङ्ग्यार्थप्रधानं काव्यमपि संगृह्यते । एवं ध्वनिशब्देन व्यञ्जकशब्दस्य, व्यञ्जकार्थस्य, व्यङ्ग्यार्थस्य, व्यञ्जनाव्यापारस्य, व्यङ्ग्यप्रधानकाव्यस्य च ग्रहणं संजायते ।
ध्वनेः स्वरूपम्-वाच्यार्थापेक्षया व्यङ्ग्येऽर्थे मुख्ये सति ध्वनिरिति कथ्यते । तथाविधं च काव्यं सर्वोत्कृष्टं मन्यते । इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः।
( काव्यप्रकाश १-४) वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् । सा० दर्पण ४-१ आनन्दवर्धनाचार्यो ध्वनि लक्षयतियत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः॥
ध्वन्यालोक १-१३ यत्र शब्दार्थो स्वार्थं गौणरूपेणोपस्थाप्य व्यङ्ग्यमर्थम् अभिव्यञ्जयतः, तदा ध्वनिः । तथाविधं काव्यं ध्वनिः ध्वनिकाव्यं वा निगद्यते । शब्दार्थयोरेकस्य व्यञ्जकत्वे तदन्यस्य सहकारित्वं प्रतिपद्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः। एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ सा० दर्पण २-१८
वाच्यार्थातिरिक्तः को ध्वनिः व्यङ्ग्योऽर्थो वेति जिज्ञासायां ध्वनिकारेण स्फूटीक्रियते यत् कामिनीलावण्यमिव यत् प्रसिद्धातिरिक्तम् अन्यदेव किंचित् प्रतीयते वाच्यातिरिक्त व्यङ्ग्यरूपं स ध्वनिः ।
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥
ध्वन्या० १-४