________________
संस्कृतनिबन्धशतकम्
ओजःकान्तिमती गौडीया ॥ काव्या० २-१२ माधुर्यसौकुमार्योपपन्ना पाञ्चाली । काव्या० २-१३
रुद्रटो चतुर्विधाया रीतेविभाजनं समासमूलकं विदधाति-वृत्तेरसमासा या वैदर्भीरीतिरेकैव । द्वित्रिपदा पाञ्चाली, लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ।' ( काव्यालंकार ) । स रसानुगुणं चैषां प्रयोगं समर्थयति-शृङ्गारे करुणे च वैदर्भी-पाञ्चाल्यो, रौद्र-भयानक अद्भुतादीनां वर्णने लाटी गौडी च ।
____ भोजराजः षड्विधां रीति प्रतिपादयति-वैदर्भी, गौडी, पाञ्चाली, आवन्तिका, लाटीया, मागधी चेति । राजशेखरोऽपि तथैव मनुते ।
कुन्तको गुणानाश्रित्य त्रेधा रीतिं विभजते-सुकुमारः विचित्रो मध्यमश्च ।
संप्रति तत्र ये मार्गाः कविप्रस्थानहेतवः।
सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः वक्रोक्ति० विश्वनाथः साहित्यदर्पणे रीतिं चतुर्धा विभजति
सा पुनः स्याच्चतुर्विधा।
वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥ सा० द०९-१, २ विश्वनाथानुसारम् एतासां लक्षणं प्रस्तूयते
माधर्यव्यञ्जकैर्वर्णं रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ सा० ९-२, ३ ओजःप्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः।. समासबहला गौडी। सा० ९-३ वणः शेषैः पुनर्द्वयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मतः। सा० ९-४ लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरन्तरे स्थिता ॥ सा० ९-५ अन्ये त्वाहुःगौडी डम्बरबद्धा स्याद वैदर्भी ललितक्रमा। पाञ्चाली मिश्रभावेन, लाटी तु मृदुभिः पदैः॥
एवं विज्ञायते यत् काव्ये रोतेरस्ति महन्महत्त्वम् । रीतिरहितं काव्यं काणत्वादिदोषयुक्तं शरीरमिव प्रतिभाति । अतः साधूच्यते वामनेन
रीतिरात्मा काव्यस्य ( काव्यालंकारसूत्र २-६ )।