SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ रीतिरात्मा काव्यस्य रीतेरुपयोगिता-नहि इतिवृत्तमात्रनिर्वाहेण कवेरात्मपदलाभः। चमस्कृति वैशिष्टयं रम्यत्वं च आसादयितुं रीतिरनिर्वाया । भणितिभङ्गी एव कवेर्वैशिष्ट्यं साधयति । रीतिः कलात्मिक्याः प्रवृत्तेर्मूलम् । किंचिद् वैशिष्ट्यम् अनाश्रित्य न कवेः कवित्वपदलाभः । अतो नीलकण्ठदीक्षितेन प्रोच्यते : सत्यर्थे सत्सु शब्देषु. सति चाक्षरडम्बरे। शोभते यं विना नोक्तिः स पन्था इति घुष्यते ॥ नीलकण्ठ० रमणीयाऽभिव्यक्तिः काव्यम् । रमणीयत्वं च काव्ये चमत्कृतिम् आदधाति । रमणीयत्वस्य मूलं च रीतिः। रीतेरुद्देश्यमस्ति-सौन्दर्यस्य सृष्टिः, रसानुगुणं पदसंयोजनम् ।। रोतेर्भेदाः-बाणेन हर्षचरिते प्रादेशिकं वैशिष्ट्यम् अनुसृत्य उदीच्यादिकवीनां वैलक्षण्यं प्रोच्यते श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बरः॥ हर्ष०१-७ अत्र चतुर्विधायाः शैल्याः स्वरूपं प्राप्यते । भामहो रीतिद्वयम् उल्लिखति-'गौडीयमपि साधीयो वैदर्भमपि नान्यथा ।' दण्डी प्रादेशिकं वैशिष्ट्यम् अनाश्रित्य गुणमूलकं रीतिविभाजनं कुरुते । श्लेषादि-दश-गुण-विशिष्टा वैदर्भी, तद् विपरीता च गौडी। श्लेषः प्रसादः समता माधुयं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः-कान्तिसमाधयः॥ इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः। एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ काव्यादर्श वामनो रीतिं त्रेधा विभजति–वैदर्भी गौडी पाञ्चाली चेति । सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ॥ काव्या० २-९ स वैदर्भीमेवं लक्षणयति समग्रगुणा वैदर्भी। काव्यालंकारसूत्र २-११ वामनेन श्लोकद्वयं वैदर्भीरीतिसन्दर्भे उध्रियते अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपञ्चीस्वर-सौभाग्या वैदर्भी रीतिरिष्यते ॥ सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥ वैदर्भीम् अनाश्रित्य न वाचि माधुर्यं प्रवर्तते । गौड़ी पाञ्चालीं च लक्षयति
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy