________________
१९. रीतिरात्मा काव्यस्य का नाम रीतिः ?-रीतिशब्देन किम् अभिप्रेतम्, एतस्मिन् विषये बहवो वादाः प्रवर्तन्ते । रीतिमार्गप्रवर्तको वामन आह- .
विशिष्टा पदरचना रीतिः। विशेषो गुणात्मा ॥ काव्यालंकारसूत्र २-७, ८ ___ अत्र पदरचनायां वैशिष्ट्यं रीतिरित्यभिप्रेतम् । सरस्वतीकण्ठाभरणे श्रीभोजराजो रीतेयुत्पत्त्यात्मिकां परिभाषां निर्दिशति । रीतिर्गिः पन्था वा
वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः। रोङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ॥ सर० सरस्वतीकण्ठाभरण-टीकाकारो रामसिंहो विषयं विशदयन् आह
'गुणवत्पदरचना रीतिः । गुणाः श्लेषादयः । रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्यायः इत्यर्थः ।'
आचार्यो विद्याधर:-'रसोचितशब्दार्थनिबन्धं रीतिः' इति परिभाषते । शिङ्गभपाल:-'पदविन्यासभङ्गी रीतिः' इति रीतिं लक्षयति । आचार्यविश्वनाथस्य लक्षणं प्रथिततरम्
पदसंघटना रोतिरङ्गसंस्थाविशेषवत् ।
उपकी रसादीनाम् ॥ सा० दर्पण ९-१
अत्र विश्वनाथः शब्दार्थशरीरस्य काव्यस्य आत्मभूतानां रसादीनाम् उपकी पदसंघटनां रीतिरिति लक्षयति ।।
रीतिशब्दो मार्गपर्याय इत्युक्तपूर्वम् । रीतिशब्दस्य पन्थाः पद्धतिः प्रणाली शैली इत्यादयः शब्दाः पर्यायवाचिनः । अद्यत्वेन शैली ( Style ) शब्देन यदभिमतं तत् पुरा रीतिशब्देनाभिप्रेतम् आसीत् ।
रोतेः स्वरूपम्-विशिष्टा भणितिभङ्गी पदसंघटना वा, कविप्रतिभाजन्या, व्युत्पत्तिलभ्या, अभ्याससिद्धा, वाच्य-वाचक-सौन्दर्येण लावण्याभिवर्धकेनौचित्येन चानुप्राणिता, गुणाश्रया, रसं भावं वाऽभिव्यञ्जयन्ती रीतिरिति । विदग्धभणितिभङ्गोरूपेणेयं चकास्ति । रीतिः शब्दार्थोभयनिष्ठान् गणान् धारयति । इयं न केवलं गुणालंकारादिभिरेव संबद्धा, अपि तु ध्वनि-वक्रोक्तिऔचित्य-रसादिभिरपि संगता।
रीतिर्न केवलं काव्यस्य शरीरं पुष्णाति, अपि तु रसादीनाम् उपकर्तृत्वात् शरीरिणम् आत्मानमपि पोषयति । काव्यविदो रोति चमत्कतिशब्देनाभिदधति । अभिनवगुप्तः चमत्कृति वक्रोक्ति बन्धं गुम्फादिशब्दं रीतेः पर्याय मनुते।