SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिः काव्यजीवितम् त्कृतिर्वा वक्रोक्तिः । सैषा विशेषता काव्यप्रतिभामूलैव । यत्र कस्मिश्चिद् वर्ण्यविषये तस्य कस्यचिद् धर्मस्य गुणस्य वाऽतिशयेनोक्तिः वैचित्र्येण विच्छित्त्या वा प्रतिपाद्यते तत्र वक्रोक्तिः । काव्यलक्षणेऽपि वक्रोक्तेरनिवार्यत्वं कुन्तकेन प्रतिपाद्यतेशब्दार्थों सहितौ वक्र-कविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ वक्रोक्ति० १-७ कुन्तकः काव्यत्वं शब्दार्थोभयनिष्ठं मनुते । न केवलं शब्दे न चाप्यर्थे । यथा प्रतितिलं तैलं तद्वत् शब्दार्थयोरपि काव्यत्वं प्रतितिष्ठति । तस्माद् द्वयोरपि प्रतितिलमिव तैलं तदविदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् । ( कुन्तक) आचार्यकुन्तको वक्रोक्ति षोढा विभजतिवर्णविन्यासवक्रत्वं पदपूर्वार्धवक्रता। वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः॥ वक्रोक्ति०१-१९ वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा। यत्रालंकारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥ १-२० वक्रभावः प्रकरणे प्रबन्धे वाऽस्ति यादृशः। उच्यते सहजाहार्य-सौकुमार्य-मनोहरः॥ १-२१ ते षड् भेदाः सन्ति-वर्णविन्यासवक्रता, पदपूर्वार्धवक्रता, पदपरार्धवक्रता, वाक्य-वक्रता, प्रकरणवक्रता, प्रबन्धवक्रता चेति । तेन प्रत्येकस्य भेदस्यानेके भेदा वर्णिताः । पूर्वोक्तविभाजनेन ज्ञायते यद् वक्रोक्तेविस्तारो वर्णादारभ्य प्रबन्धं यावद् वर्तते । एतदन्तर्गतमेव भाषा, प्रकृतिवर्णनम्, चरित्रचित्रणम्, कथासंयोजनम्, ऐतिहासिक-तथ्यसंकलनम्, वस्तुवर्णनम्, अलंकारविधानम्, रसप्रयोगः, काव्यसन्देशादिकं च तथा सूत्ररूपेणोपलभ्यते येन परवर्तिन्याः साहित्यिकसमीक्षायाः सरणिः प्रशस्ता भवति । यथा तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ वक्रोक्ति० २-९ श्लोकोऽयं वक्रोक्तिजीविते ध्वन्यालोके चावाप्यते । आनन्दवर्धनोऽत्र अर्थान्तरसंक्रमित-वाच्यध्वनिम् अङ्गीकरोति, कुन्तकश्चात्र रूढि-वैचित्र्यवक्रतां प्रतिपद्यते । क्रियावैचित्र्यवक्रतायां कुन्तको ध्वन्यालोकस्य मङ्गलाचरणम् उपस्थापयति । स्वेच्छाकेसरिणः स्वच्छ-स्वच्छायायासितेन्दवः। त्रायन्तां वो मधुरिपोः प्रपन्नातिच्छिदो नखाः॥ ध्वन्या० १-१ एवं कुन्तकेन 'वक्रोक्तिः काव्यजीवितम्' इति साधु विवियते। .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy