________________
संस्कृतनिबन्धशतकम् आनन्दवर्धनोऽपि वक्रोक्तिं समर्थयन् इव प्रतिभाति । तन्मतानुसारं 'काव्यस्यात्मा ध्वनिः' । काव्यस्य कला-भाव-पक्षयोर्ध्वनिना वक्रता संपाद्यते । अतिशयोक्तिः काव्यस्य सौन्दर्य विशदयति । सर्वेऽप्यलंकारा अतिशयोक्तो वक्रोक्तो वा समाश्रिताः । कवि-प्रतिभा-जन्या अतिशयोक्ति: अलंकारेष्वत्यधिक सौन्दर्य वर्धयति । अतिशयोक्त्या वक्रोक्त्या वा हीना अलंकारा अलंकारमात्रमेव । आनन्दवर्धनस्यातिशयोक्तिः भामह-दण्डिनोर्वक्रोक्त्या अभिन्ना। अतएव ध्वन्यालोके तेनोच्यते
___ 'अतिशयोक्तिगर्भता सर्वालंकारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छवि पुष्यति । तत्रातिशयोक्तिर्यम् अलंकारम् अधितिष्ठति कविप्रतिभावशात् तस्य चारुत्वातिशययोगोऽन्यस्य तु अलंकारमात्रतैवेति ।..." सैव सर्वालंकाररूपा ।' ध्वन्यालोक ३-३७ टीका
अतिशयोक्तिहीनं वक्रोक्तिहीनं वा काव्यम् अवरकाव्यत्वेन गण्यते । एतस्मात् कारणाद् अतिशयोक्तिः सर्वालंकारमूला मन्यते । आनन्दवर्धनाचार्य-मतेन अतिशयोक्तेः अलंकारान्तरः सांकयं वाच्यत्वेन व्यङ्ग्यत्वेन च भवति । वाच्यरूपेण सा सर्वेषाम् अर्थालंकाराणां जननी । व्यङ्गयरूपेण च संयुक्ता सा ध्वनिरूपेण गुणीभूत-व्यङ्ग्यरूपेण च विपरिणमते ।
'तस्याश्चालंकारान्तरसंकीर्णत्वं कदाचिद् वाच्यत्वेन, कदाचिद् व्यङ्गयत्वेन ।' ध्वन्यालोक ३-३७ टीका
'अतिशयोक्तेस्तु सर्वालंकारविषयोऽपि संभवति' ( ध्व० ३-३७ ) इति वदता आनन्दवर्धनेन वक्रोक्तेरपि सर्वालंकार-विषयत्वम् उपपाद्यते । कुन्तकसमकालीनो भोजराजोऽपि वक्रोक्तिम् उपास्ते । वक्रोक्तिमूलकं काव्यलक्षणम् उपपादयता तेनोच्यते
यद् वक्रं वचः शास्त्रे लोके च वच एव तत् ।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ शृङ्गारप्रकाश
भोजराजः सरस्वतीकण्ठाभरणे वाङ्मयं त्रिधा विभजति–वक्रोक्तिः, रसोक्तिः, स्वभावोक्तिश्च । तत्र रसोक्तः प्राधान्यं वर्ण्यते । कुन्तको रसोक्तौ वक्रोक्तौ च नान्तरं मनुते ।
वक्रोक्तेः स्वरूपम्-कुन्तको वक्रोक्तेः स्वरूपं प्रतिपादयन् आह
उभावतावलंकार्यों तयोः पुनरलंकृतिः।। वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ॥ वक्रोक्ति० १-१०
वक्रोक्रिर्वचोभङ्गिमा एव । एष वचोभङ्गिमा एव उक्तौ शोभाम् आदधाति । उक्तो चमत्कृतेश्चारुतायाश्च संपादनं वक्रोक्तरेव संभाव्यते। अतः वक्रोक्तिः काव्यजीवितम् । वक्रोक्तिहीनं काव्यं निर्जीवमेव । उक्तेर्वैचित्र्यं चम