SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ १८. वक्रोक्तिः काव्यजीवितम् ___ (काव्यं हि वक्रोक्तिप्रधानम् ) वक्रोक्तेः ऐतिह्यम्-वक्रोक्तिसंप्रदायस्योद्भवो ध्वनिसंप्रदायमूलक एव । आनन्दवर्धनाचार्यप्रतिपादितेन ध्वनिसिद्धान्तेन नैराश्यम् आप्ता अलंकारवादिनः अलंकारेषु काव्यस्य मूलतत्त्वम् अन्वेषयन्तो वक्रोक्ति समासादयन् । संप्रदायस्यास्य प्रतिष्ठापकः कुन्तकाचार्यः । तद्विरचितं वक्रोक्तिजीवितं विषयेऽस्मिन प्रामाणिको ग्रन्थः । _वक्रोक्तिसिद्धान्तस्यास्य उद्भव आचार्यभामहेन प्रारभते । स चालंकारे समग्रमपि काव्यवैशिष्ट्यं संगृह्णाति । सर्वत्रापि अतिशयोक्तेः प्राधान्यं निरीक्ष्यते। ध्वनिवादेऽपि अतिशयोक्तिमूलक एव ध्वनिः। वक्रोक्तो अपि अतिशयोक्तेरनिवार्यत्वम् । एतदेव प्रतिपादयता भामहेनोच्यते : सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते। यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ काव्या० २-८५ भामहोऽतिशयोक्ति वक्रोक्तिं च पर्यायत्वेन गणयति । अत्र सैषा अतिशयोक्तिरेव वक्रोक्तिरित्यर्थः, अनयैव अर्थस्याभिव्यक्तिर्भवति । अतिशयोक्तिमूलैव वक्रोक्तिः । भामहाभिमतेन वक्रोक्तिः सर्वालंकाररूपा। सर्वेषाम् अलंकाराणां मूलमेतत् । अनयैव अर्थाभिव्यक्तिः । वक्रोक्तिरेव काव्यत्वं संपादयति । सैषा सर्वालंकाररूपा। वक्रोक्तिः काव्ये समस्त-सौन्दर्याधायिका। एवं भामहाभिमतेन वक्रोक्तिः काव्यस्यात्मा। वक्रोक्तिशब्दप्रयोगो बाणेन परिहासजल्पिते, अमरुकविना च क्रीडालापे क्रियते । आचार्यो दण्डी काव्यं द्विधा विभजति-स्वभावोक्ति: वक्रोक्तिश्च । ___ श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् । द्विधा भिन्नं स्वभावोक्ति-वक्रोक्तिश्चेति वाङ्मयम् ॥ काव्या० दण्डी काव्यशोभाकरान् सर्वान् धर्मान् अलंकारान्तर्गतं विधत्ते । दण्डिना व्याख्याताः सर्वेऽपि अलंकारा वक्रोक्तेरन्तर्भूताः ।। काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते । काव्यादर्श यच्च सन्ध्यङ्ग-वृत्त्यङ्ग-लक्षणाद्यागमान्तरे। व्यावर्णितमिदं चेष्टम् अलंकारतयैव नः॥ काव्यादर्श कुन्तको भामहेन दण्डिना च प्रेरणाम् अवाप्य स्वभावोक्तावपि वक्रोक्तेदर्शनं कुरुते । वक्रोक्तेः क्षेत्रं च यावद्वर्ण्यविषयं विस्तारयति । कुन्तकानुसारं काव्यशोभाकराः सर्वेऽपि धर्मा वक्रोक्तिजन्या एव । एवं स्फुटं ज्ञायते यत् कुन्तको वक्रोक्तमहत्त्वं प्रभावं चमत्कृतिं च अलंकारवादिभ्य एवागृह्णात् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy