SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् जीवितम्' । भरतेनाप्युच्यते - ' नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते' । एवं विचार्यते चेत् तर्हि ज्ञायते यद् विश्वनाथेन पूर्वाचार्यैः अङ्गीकृतं काव्यस्य रसात्मकत्वं स्फुटं प्रतिपादितम् । तैत्तिरीयोपनिषद 'रसो वै स:' ( तै० २-७ ) इति ब्रह्म सरूपेण प्रतिपाद्यते, तत्प्राप्तिसाधनत्वेन काव्यमपि रसात्मकमिष्यते । ' रस्ते आस्वाद्यते इति रसः' इति लक्षणयन् आचार्यो भरतः काव्यम् आस्वादयं मनुते । एवमपि विश्वनाथकृतं लक्षणम् उचितं प्रतिभाति । जगन्नाथः – रसगङ्गाधरकर्तुः पण्डितराज जगन्नाथस्यापि काव्यलक्षणं बहुसंमतम् आदरास्पदं च ६० रमणीयार्थप्रतिपादकः शब्दः काव्यम् । रसगङ्गाधर, पृ० ४ अत्राभिव्यक्तेः प्राधान्यम्, स्फुटं सुन्दरं सहृदयग्राहि च वर्णनं काव्यस्य मुख्यता स्वीक्रियते । जगन्नाथो रमणीयार्थप्रतिपादकं शब्दमेव काव्यं मनुते, न चार्थम् । 'तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्द - निष्ठतेवोचिता' ( रस० पृ० ५ ) इति व्याहरता तेन शब्दस्यैव काव्यत्वं प्रतिपाद्यते । तस्य टीकाकारो नागेशभट्टः शब्दार्थयोः काव्यत्वं साधयन् मम्मटं समर्थयति — 'तेनानुपहसनीय काव्यत्वलक्षणं प्रकाशोक्तम् निर्बाधम्' इति । काव्यलक्षणविषये संस्कृतज्ञानां नैकमत्यम् । केचन मम्मटं केचन विश्वनाथं केचन च जगन्नाथं साधिष्ठं मन्यन्ते । सर्वविषयावगाहित्वेन मम्मटलक्षणं साधिष्ठम्, सुगमार्थतया रसस्य मुख्यत्वेन च विश्वनाथः, अभिव्यक्तेः कलापक्षस्य कल्पनापक्षस्य चोद्भावनया जगन्नाथः सर्वातिशायी । जगन्नाथ-लक्षणं पाश्चात्त्यकाव्य-तत्त्वज्ञैः साम्यं भजते । कल्पनानुभूतिजन्य - विचाराणां मधुराभिव्यक्ति-कलैव कवितेति साधिष्ठा व्याख्या । तद्यथा Poetry is the art of expressing in melodious words, thoughts which are the creations of imagination and feelings. ( Chamber's Dictionary )
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy