SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ वाक्यं रसात्मकं काव्यम् ५९ अत्र 'रस आत्मा' इत्यनेन काव्ये रसस्य आत्मत्वम् ऊरीकरोति । आचार्यः कुन्तकः 'वक्रोक्ति: काव्यजीवितम्' इति साधयति । उच्यते च तेन शब्दार्थो सहितौ वक्र-कविव्यापारशालिनि। बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ वक्रोक्ति० १-७ क्षेमेन्द्रश्च औचित्यविचारचर्चायाम् 'औचित्यं काव्यजीवितम्' इति साधयति उक्तं च तेन काव्यस्यालमलंकारैः किं मिथ्यागुणितैर्गुणैः। यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥ अलंकारास्त्वलंकारा गुणा एव गणाः सदा। औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ औचित्य० ४-५ मम्मटः--काव्यशास्त्र मुख्यत्वेन आचार्यमम्मटस्य लक्षणं स्वीक्रियते उध्रियते प्रस्तूयते च तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि । काव्यप्रकाश १-४ लक्षणमेतत् काव्यस्य स्वरूपं सर्वाङ्गत्वेन व्यवस्थापयति । अतएव काव्यशास्त्रज्ञैर्लक्षणमेतद् बाहुल्येन स्वीक्रियते । अत्र पूर्वाचार्यैः स्वीकृतं शब्दार्थयोमहत्त्वं पूर्ववद् उपस्थाप्यते । काव्ये प्रसादादिगुणानां महत्त्वमत्र स्वीक्रियते । काव्ये उत्कटदोषाभावेऽपि विशेषतोऽवधानं दत्तम् । 'अनलंकृती पूनः क्वापि' इत्यनेनालंकाराणां गौणत्वं प्रतिपाद्यते । तदभावेऽपि न काव्यत्वक्षतिः । आचार्यो मम्मट:इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः। (काव्य० १-४) इत्यनेन ध्वनेमहत्त्वमप्युपपाद्यते । आचार्यों हेमचन्द्रोऽपि काव्यानुशासने प्रकारान्तरेण मम्मटाभिमतं काव्यलक्षणमेव निर्दिशति । __ अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । काव्यानु० विश्वनाथ:-आचार्य-विश्वनाथस्य काव्यलक्षणं प्रायो विद्वद्भिः प्रशस्यते . वाक्यं रसात्मकं काव्यम्। सा० दर्पण, १-३ 'रस एवात्मा साररूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात् । 'रस्यते इति रसः' इति व्युत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यन्ते ।' ( विश्वनाथ ) । अत्र ध्वनिकारैः प्रतिपादितो रसध्वनिरेव काव्यत्वेन स्वीक्रियते । अग्निपुराणेऽपि रसस्य महत्त्वं प्राप्यते-'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy