SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ संस्कृतनिबन्धशतकम् पण्डितराज जगन्नाथं विहाय प्रायः सर्वैरपि पूर्वाचार्यैः काव्यलक्षणे शब्दार्थयोः द्वयोरपि संकलनं विधीयते । प्राचीनाचार्यो भामहः काव्यालंकारे काव्यलक्षणम् अभिधत्तेः शब्दार्थों सहितौ काव्यम् । काव्यालंकार १-१६ वामनादिभिरपि शब्दार्थयोः काव्यत्वं स्वीक्रियते । तद् यथाकाव्यशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्त्तते । ( वामन १-१) शब्दार्थो काव्यम् । (रुद्रट-काव्यालंकार २-१) अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । ( हेमचन्द्र ) शब्दार्थों निर्दोषौ सगुणौ प्रायः सालंकारौ च काव्यम् । ( वाग्भट ) गुणालंकार-सहितौ शब्दार्थों दोषवजितौ । ( विद्यानाथ प्रतापरुद्र ) शब्दार्थों वपुरस्य तत्र विबुधैरात्माभ्यधायि ध्वनिः । (विद्याधर एकावली) शब्दार्थयोः समन्वयः काव्यमिति । अर्थानुकूलं शब्दप्रयोगः, शब्दानुरूपं चार्थ इति अत्राभिमतम् । आचार्यो दण्डी भामहस्य 'शब्दार्थों' इति विशदयन् आह शरीरं तावदिष्टार्थ-व्यवच्छिन्ना पदावली । काव्यादर्श १-१० अत्र शब्दार्थयोः समन्वयेन काव्यस्य शरीरमेव निर्धार्यते। अतएव आनन्दवर्धनाचार्यः 'शब्दार्थशरीरं तावत् काव्यम्' इति व्याहरन् शब्दार्थयोः पृथक् काव्यस्य आत्मानं मनुते । काव्यस्य शरीरज्ञानेऽपि तत्र 'कः आत्मा' इति न निश्चप्रचं ज्ञायते। काव्यस्य आत्मा-परवर्तिभिराचार्यैः 'कः काव्यस्य आत्मा' इति गवेषयद्भिर्बहुधा स प्रस्तूयते । वामनः 'रीतिरात्मा काव्यस्य' इति निगदन् रीतिमेव काव्यात्मरूपेण स्वीकरोति । रीतिशब्देन शैली भाषासौन्दर्य सालंकृतित्वं चाभीष्यते । वामनेनोच्यते : काव्यशब्दोऽयं गुणालंकारसस्कृतयोः शब्दार्थयोर्वर्तते, भक्त्या तु शब्दार्थमात्रवचनो गृह्यते । उद्भटोऽपि गुणालंकारयोः समरूपेण काव्ये स्थिति स्वीकरोति । रुद्रट: 'शब्दार्थों काव्यम्' इति अभिदधत् काव्ये शब्दार्थयोर्महत्त्वं निर्दिशति । आनन्दवर्धनाचार्यः 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व:०' ( ध्वन्यालोक १-१ ) इति ब्याहरन् ध्वनिमेव काव्यस्यात्मरूपेण प्रतिपाद्यते । राजशेखरः काव्यमीमांसायां काव्यपुरुष साङ्गोपाङ्गं प्रस्तौति । शब्दार्थो ते शरीरम्, संस्कृतं मुखम्, प्राकृतं बाहुः,...रस आत्मा, रोमाणि छन्दांसि, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति । ( काव्यमीमांसा, पृष्ठ १३-१४)
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy