________________
१७. वाक्यं रसात्मकं काव्यम् ( काव्य-लक्षणम् )
भावानुभूतिमद् वाक्यं रसवद् ध्वनिसंगतम् । गुणालंकारसंजुष्टं काव्यं रम्यार्थद्योतकम् ॥ ( कपिलस्य )
काव्यस्योद्देश्यम् :–असारेऽस्मिन् संसारे दुःख- दावाग्नि- दग्धस्य आधिव्याधि- प्रपीडितस्य पापादिविषण्णस्य मायामोह - भ्रान्तचेतसो मानववृन्दस्य मनःसन्तापनिवारणाय चेतः प्रसादाय सुखावाप्तये च विद्वद्धौरेयाः तत्त्वज्ञाः काव्यशास्त्रनामकं रत्नं वाङ्मयमहोदधेः सारभूतम् उददीधरन् । रत्नमेतत् चतुर्वर्गावाप्तिसाधनं ब्रह्मानन्दसहोदरं रसम् आस्वाद्यतया जनयद् गौरवम् अलभत । काव्यं हि यशसेऽर्थलाभाय व्यवहारज्ञानाय पापविनाशाय परमानन्दलाभाय कान्तासंमित-कर्तव्योपदेशाय च प्रशस्यते । उक्तं च मम्मटेन—
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः पर- निर्वृतये कान्तासंमिततयोपदेशयुजे ॥ ( काव्य० १-२ ) काव्यं हि नवरसरुचिरत्वाद् नियतिकृतनियमरहितत्वाद् आह्लादजनकत्वाद् अनन्यपरतन्त्रत्वाद् ब्रह्मकृतां सृष्टिमपि अतिशेते । एतदेव विशदीक्रियते मम्मटेन
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ का० १-१ काव्यलक्षणम् - किं तावत् काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति । परमद्यावधि नैकमपि लक्षणं निर्दुष्टं सर्वसंमतं वा । भरतस्य नाट्यशास्त्रे प्राचीनतमं लक्षणम् उपलभ्यते— मृदु-ललित पदाढ्यं गूढशब्दार्थ हीनं
जनपदसुखबोध्यं युक्तिमन्नृत्ययोग्यम् ।
बहुकृतरसमागं सन्धि-सन्धान-युक्तं
भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ नाट्यशास्त्र अत्र मुख्यतो दृश्यकाव्यमेव परिभाष्यते । अग्निपुराणे सर्वप्रथमं काव्यलक्षणं निर्दिश्यते
--
संक्षेपाद् वाक्यमिष्टार्थव्यवच्छिन्ना पदावली ।
काव्यं स्फुरदलंकारं गुणवद् दोषवजितम् ॥ अग्निपुराण ३३७-६०७
अत्र काव्यस्य पञ्च तत्त्वानि स्वीक्रियते — इष्टार्थः, संक्षिप्तं वाक्यम्, अलं
काराः, गुणाः, दोषाश्चेति । एतेन काव्यस्य बाह्यरूपरेखा स्फुटीभवति ।