________________
संस्कृतनिबन्धशतकम् मायैव अविद्या-अज्ञान-अध्यास-अध्यारोप-विवर्तादिशब्दैव्य॑वह्रियते । अज्ञानोपाध्यवच्छिन्नं स्थूलं शरीरं व्यष्टिरूपं सद् विश्वं जगद् वा भवति । तत्त्वदशा चिन्तनेन परिवर्तनशीलत्वाद् विनाशित्वाच्च जगद् मिथ्येत्युच्यते ।
वेदान्तानुसारं त्रिविधा सत्ता स्वीक्रियते-प्रातिभासिकी, व्यावहारिकी, पारमार्थिकी च । प्रातिभासिकी सत्ता किंचित्कालावस्थायिनी, पश्चात् प्रतिबाधिता च । यथा-रज्जौ सर्पबुद्धिः, शुक्तौ रजतबुद्धिश्च । व्यावहारिकी सत्ता जगद्-व्यवहारप्रधाना। नामरूपात्मकं जगद् व्यवहारदृष्टयैव सत्यम्, परमार्थदृष्ट्या असत्यं मिथ्या वा। जगद् विपरिणामि नश्वरं परिवर्तनर्मि अशाश्वतं चेति अवधार्य असत्यं मिथ्या वेत्युच्यते, न तु लौकिकज्ञाननिर्मलताऽऽपादनाय । पारमार्थिकी सत्ता सा या न क्वचिद् व्यापद्यते विहन्यते वा। यत् तत्त्वतोऽक्षरं शाश्वतं वा तदेव पारमार्थिकं सत्यम् । एवं ब्रह्मैव केवलं पारमार्थिकी सत्ता। तात्त्विकदृष्ट्यैव जगन्मिथ्येति वेदान्तविदाम् अभिमतम् । व्यवहारदृष्टया तु तदनुभूतिर्न निर्मूला।
जीवो ब्रह्मैव नापरः--अज्ञानोपाध्यवच्छिन्नं व्यष्टिरूपं सत् कारणशरीरं प्राज्ञो जीवो वेत्याख्यायते । समष्टेरीश्वरस्य व्यष्टिरूपो जीवः । सर्वज्ञत्वाल्पज्ञत्वादिभेदेन ब्रह्मजीवात्मनो दः । आत्मतत्त्वरूपेण चैतन्यरूपेण च तयोरभेदः । अतएव 'तत् त्वमसि' इति महावाक्येन जीव-ब्रह्मणोरैक्यं प्रतिपाद्यते । सर्वज्ञत्वाल्पज्ञत्वादिभेदवारणेन तयोरैकात्म्यम् । एकस्यैव तत्त्वस्य समष्टि-व्यष्टिरूपेण नामान्तरं ब्रह्मजीवात्मानौ इति । ब्रह्मसाक्षात्कारे द्वयोरैक्यस्यानुभूतेः 'तत् त्वमसि' इति संगच्छते । अत्र भागलक्षणाया जहदजहल्लक्षणाया वा स्वीकरणाद् ब्रह्मजीवयोरेकत्वं साध्यते । सुरेश्वराचार्यो नैष्कर्म्यसिद्धौ एतदेव प्रतिपादयतिः
सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् ॥ नैष्कर्म्यसिद्धि ३-३
पञ्चदश्यां विद्यारण्यः 'तत्त्वमसि' इत्यस्य महावाक्यस्य अखण्डैकरसत्वमेव वाक्याथं विवणते । उक्तं च
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः। अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः॥ पञ्चदशी ७-७५ एवं सुकरम् एतद् अभिधातुं यद्ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः॥