SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ब्रह्म सत्यं जगन्मिथ्या ५५ अग्निर्यथैको भुवनं प्रविष्टो रूपं रू प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ कठ० २-५-९ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद्ब्रह्म तदापस्तत् प्रजापतिः॥ श्वेता०४-२ ब्रह्म सत्यम्-किं सत्यं किम् असत्यं मिथ्या वा, इति जिज्ञासायाम् आचार्यः श्रीशंकरोऽभिधत्ते यद्-'यद् रूपेण यन्निश्चितं तद् रूपं न व्यभिचरति तत् सत्यम्'। अर्थात् यद् वस्तु शाश्वतिकं परिवर्तनरहितम् अविनश्वरं च तत् सत्यम्, अतोऽन्यद् असत्यं मिथ्या वा । एवं चिन्तनेन सिध्यति यद् जगद् असत्यं जगतः परिवर्तनशीलत्वात् । ब्रह्म च सत्यं शाश्वतिकम् अपरिवर्तनशीलम्, अतः तस्य सत्यता न केनापि रूपेणाक्षेप्तुं शक्या। वेदान्तदर्शने ब्रह्म निर्विकल्पं निरुपाधि निर्विकारं चेति उररीक्रियते । तद् ब्रह्म द्विविधं निर्गुणं सगुणं च । निर्गुणं ब्रह्म परमार्थदृष्टया सच्चिदानन्दस्वरूपम् । तदेव जगतः प्रकाशकम् । तत्सत्तयैव सूर्यचन्द्रादिकं प्रकाशते । अज्ञानोपाध्यवच्छिन्नं ब्रह्म सगुणरूपताम् आपद्यते । तदेव नामरूपादिभेदेन नानादेवतारूपताम् आसादयति । तथा च कठोपनिषदि स्वीक्रियते एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च । कठ० २-५-१० एकं रूपं बहुधा यः करोति । कठ० २-५-१२ तस्य ब्रह्मणोऽविद्योपाध्यवच्छिन्नं कारणशरीरं समष्टिरूपेण 'ईश्वरः' व्यष्टिरूपेण च 'प्राज्ञः' जीवो वा मन्यते । तस्यैव ज्ञानेन सर्व विज्ञायते । तदेव जगति ओतं प्रोतं च । ब्रह्मकत्वज्ञाने च न मोहो न शोकः । न च तदन्यद् वस्त्वन्तरम् । एतदेव श्रुतिषु बहुधा प्रतिपाद्यते ___ 'ईशावास्यमिदं सर्वम्' ( ईश० १), 'ऐतदात्म्यमिदं सर्वम्, 'यस्मिन् विज्ञाते सर्व विज्ञातं भवति', 'स आत्मा तत्त्वमसि श्वेतकेतो' ( छान्दोग्य०), 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' (ईश० ७), मृत्योः स मृत्युमाप्नोति य इह नानेन पश्यति'।। जगन्मिथ्या-वेदान्तनुसारं जगन्मिथ्येति मन्यते । विषयेऽस्मिन् बढ्यो विप्रतिपत्तयो वर्तन्ते । वेदान्तानुसारं मायायाः शक्तिद्वयम्-आवरणविक्षेपनामकम् । आवरण-शक्तिब्रह्मणः शुद्धस्वरूपम् आवृणोति । विक्षेपशक्तिश्च तत्र आकाशादिप्रपञ्चं सृजति । विशदीकृतं चैतद् दृग्दृश्यविवेके: शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिलिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ॥ अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः। आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ दृग्दृश्यश्लोक १३, १५
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy