SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १६. ब्रह्म सत्यं जगन्मिथ्या ( सर्व खल्विदं ब्रह्म) ब्रह्मणः स्वरूपम्-आधिव्याधिपरिपीडितो जराजन्म-मरणादिदुःख-दावाग्निदग्धः, क्लेशायासविषण्णः, अज्ञानान्धतमसनिमीलितनयनः, भौतिक-विषयायासितान्तरो जीव आनन्दावाप्तये मोक्षाधिगमाय त्रिविधतापविनाशाय मोहापहाराय च जगच्छरण्यं शुद्ध-बुद्ध-मुक्त-स्वभावं जगदीश्वरम् आश्रयते । जगदीश्वरो वेदान्तमतेन ब्रह्मेत्याख्यायते । तस्य ब्रह्मणः स्वरूपम् उपनिषत्सु बहुधा प्रतिपाद्यते । माण्डूक्योपनिषदि तत्स्वरूपं निगद्यते यत् एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । ६ । नान्तःप्रजं न बहिःप्रज्ञं नोभयतःप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यम्" एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विजेयः॥माण्डूक्योपनिषद् । ७ स परमात्मा अद्वितीयः सर्वव्यापकः सर्वान्तर्यामी साक्षो चैतन्यस्वरूपो निर्गणश्चेति । न तत्समश्चाभ्यधिकश्च कश्चन । अस्य शक्तिरपूर्वा विविधगणमयी च । स एव ऊर्णनाभ इव मायया सकलं जगत् सृजत्यवति संहरति च । उक्तं च एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता निर्गुणो निष्क्रियश्च ॥ - श्वेता०६-११ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ श्वेता० ६-८ यस्तूर्णनाभ इव तन्तुभिः प्रधानजैः स्वभावतः।। देव एकः स्वमावृणोति स नो दधातु ब्रह्माव्ययम् ॥ श्वेता० ६-१० तस्यैव तेजसा निखिलं जगद् द्योतते । स एव प्रकाशानामपि प्रकाशः, तेजसां तेजश्च । सूर्यचन्द्रतारकादयो न तस्य प्रकाशने प्रभवः । अग्न्यादीनां तु का कथा। न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनु भाति सवं तस्य भासा सर्वमिदं विभाति ॥ श्वेता०६-१४ स एवैको विश्वरूपः सर्वदेवमयश्चेति बहुधा वर्ण्यते । उक्तं च
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy