________________
नास्ति योगसमं बलम् . (४) प्राणायामः-तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ( २-४९ )। बाह्यस्य वायोराचमनं श्वासः, अन्तर्गतवायोनिःसारणं च प्रश्वासः, तयोर्गतिविच्छेदः प्राणायामः स च चतुर्विधः-पूरकः-गृहीतश्वासस्य अन्तनिरोधः । रेचक:-अन्तर्गतप्रश्वासस्य बहिनिरोधः । बाह्यकुम्भक:-बहिनिरुद्धस्य वायोर्बहिरेव यावच्छक्यं निरोधः । आभ्यन्तरकुम्भक:अन्तनिरुद्धस्य वायोरन्तरेव यावच्छक्यं निरोधः । प्राणयामेन शरीरमलप्रक्षयः शरीरशुद्धि रोग्यं च । भस्त्रिकया यथा धातुमलं संशोध्यते तथैव शरीरमलं प्राणायामेन शोध्यते । उक्तं च मनुना
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ मनु०६-११ ( ५ ) प्रत्याहारः-'स्वविषयासंप्रयोगे चित्तस्य स्वानुकार इवेन्द्रियाणां प्रत्याहारः' ( २-५४ ) । इन्द्रियाणां स्वविषयेभ्यो निवृत्तिः अन्तर्मुखी वृत्तिश्च प्रत्याहार इत्यभिधीयते । एतस्माद् इन्द्रियाणां वशित्वम् उपपद्यते । यमादीनि पञ्च योगाङ्गानि बहिरङ्गसाधनानि मन्यन्ते, धारणा-ध्यान-समाधयश्चेति त्रयोऽन्तरङ्गसाधनानीति ।
(६) धारणा-'देशबन्धश्चित्तस्य धारणा' ( ३-१)। हृत्कमले नासिकाग्रे, भ्रूमध्ये, अन्यत्र वा कस्मिंश्चित् निर्दिष्टे स्थाने चित्तस्यैकाग्रता धारणेति व्यवह्रियते । धारणया मनसो निग्रहः, एकाग्रतया विषयैक्ये मनसोऽभिरुचिश्च प्रवर्तते ।
(७) ध्यानम्--'तत्र प्रत्ययकतानता ध्यानम्' ( ३-२) । एकाग्रीकृते चित्ते ध्येयस्य वस्तुनः एकाकाररूपेण प्रवाहो ध्यानमित्युच्यते । एकस्यैव वस्तुनः ऐकाग्र्येण चेतसा चिन्तनं तल्लीनत्वं च ध्यानमित्यनेन संसूच्यते ।
(८) समाधिः--'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' ( ३-३ )। सम्यग् आधीयतें एकाग्रीक्रियते विक्षेपान् परित्यज्य मनो यत्र स समाधिः । यदा ध्यानं ध्येयाकाररूपं स्वरूपशन्यमिव वा भवति तदा समाधिरित्युच्यते । समाध्यवस्थायां ध्यान-ध्यातृ-ध्येयानाम् एकरूपता संपद्यते ।
धारणा-ध्यान-समाधयः त्रयमेतत् 'संयमः' इत्युच्यते । 'त्रयमेकत्र संयमः' ( ३-४ ) । 'तज्जयात् प्रज्ञालोकः' ( ३-५) संयमस्य वशीकरणेन विवेकख्यातेः तत्त्वज्ञानस्य वा समुदयः संजायते ।
एवम् अष्टाङ्गयोगसाधनेन साधकः स्वचित्तवृत्तिनिरोधाद् ऐकान्तिकम् आत्यन्तिकं च सुखं विन्दति मोक्षम् चाधिगच्छति । अतएव पतञ्जलेस्तत्त्वज्ञतां प्रशंसयन्नाह कविः
योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां, पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ .'