________________
संस्कृतनिबन्धशतकम् . भवप्रत्ययः समाधिः । 'भवप्रत्ययो विदेहप्रकृतिलयानाम्' ( १-१९)। 'श्रद्धा-वीर्य . स्मृति-समाधि-प्रज्ञापूर्वक इतरेषाम्' (१-२०), श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-सम
वेतानाम् उपायप्रत्ययः समाधिः। उपायप्रत्यये प्रज्ञाया उदयात् संस्काराणां . दाहाच्च व्युत्थानाशङ्का न संभवति । उपायप्रत्यय एव वास्तविकः समाधिः ।
पञ्च क्लेशाः-क्लेशापगमेनैव योगमार्ग-प्रसूतिः । क्लेशा विघ्नस्वरूपाः । 'अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः' (२-३ ) । अस्मितादिक्लेशचतुष्टयस्य मूलम् अविद्यैव । 'अनित्याशुचिदुःखानात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्या' ( योग० २-५ )। अनित्ये नित्यबुद्धिः, अशुचौ शुचिबुद्धिः, दुःखे सुखबुद्धिः, अनात्मनि आत्मबुद्धिश्च अविद्यैव । 'दृग्दर्शनशक्त्योरेकात्मतैवास्मिता' (२-६)। दृग्दर्शनशक्त्योः पुरुष-बुद्धयोः एकात्मतारूपेण ज्ञानम् अस्मिता । 'सुखानुशयी रागः' (२-७), सुखजनकेषु वस्तुषु तृष्णा राग इति । 'दुःखानुशायी द्वेषः' (२-८), दुःखदेषु वस्तुषु क्रोध परिजिहीर्षा वा द्वेष इति । मृत्युभीतिः अभिनिवेश इति । एषां प्रणाशेनैव योगाभिरुचिस्तत्साफल्यं च ।
योगाङ्गानि-योगाङ्गानि समाधिम् अधिजिगांसूनां कर्तव्यमीमांसा बोधयन्ति । योगसाफल्याय कायस्य मनस इन्द्रियाणां च शुद्धिरभीष्टा । तदर्थ साधनाष्टकं योगसूत्रे प्रतिपाद्यते । एतद् योगाङ्गनाम्ना व्यवह्रियते । यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ।
योग०२-२९ (१) यमाः–'अहिंसा-सत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (२-३०), अहिंसादिपञ्चकं यम-नाम्ना व्यवह्रियते । अहिंसा-सर्वभूतानाम् अनभिद्रोहः । सत्यम्-वाङ्मनसयोः एकरूपता । यथादृष्टश्रुतस्य तद्रूपेणाभिव्यक्तिः । अस्तेयम्चौर्याभावः, परद्रव्यस्य अहरणं वा। ब्रह्मचर्यम्-जितेन्द्रियता, इन्द्रियवशीकरणं च ।अपरिग्रहः-भौतिकविषयाणां परिहारः । यमा ह्येते देशकालाद्यनविच्छिन्नाः सार्वभौमा महाव्रत मन्यन्ते । 'जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (२-३१)
(२) नियमाः--'शौच-संतोष-तपः-स्वाध्याययेश्वरप्रणिधानानि नियमाः ( २-३२ ) । तत्र शौचं-बाह्याभ्यन्तर-शुद्धिः । सन्तोष:-यथाप्राप्तेन सन्तुष्टिः । तप:-सुखदुःख-शोकहर्षादिद्वन्द्वानां सहनम् । स्वाध्यायः-अध्यात्मपराणां शास्त्रीयानां च ग्रन्थानाम् अध्ययनं प्रणवस्य जपो वा। ईश्वरप्रणिधानं-ईश्वरचिन्तनम् ईश्वरार्पणं च ।।
(३) आसनम्-'स्थिरसुखमासनम्' (२-४६ ) स्थिरतया दीर्घकालं यावत् सुखेन निषदनम् आसनमिति । पद्मासन-सिद्धासन-शोर्षासनादीनि योगा. सनान्यत्र संगृह्यन्ते । योगासनैः कायरोगचिकित्सापि संजायते ।