SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ १५. नास्ति योगसमं बलम् ( योग - तत्त्वमीमांसा ) - योगस्य स्वरूपम् — ‘योगश्चित्तवृत्तिनिरोधः' ( योग० १-२ ) । चित्तवृत्तीनां निरोधेनैव योगस्य संसिद्धिः । अवस्थायामस्यां जीवः स्वरूपम् अधितिष्ठति । चित्तस्य पञ्च भूमयः - ' क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धमिति चित्तभूमयः' ( व्यासभाष्य १ - १ ) । तत्र क्षिप्तं मूढं विक्षिप्तमिति भूमित्रयं योगानुपकारि । एकाग्रे चित्ते बहिर्वृत्तीनां निरोधेन संप्रज्ञातः समाधिर भीष्यते । निरुद्धे चेतसि सर्वासां वृत्तीनां संस्काराणां च निरोधेन असंप्रज्ञातः समाधिः सिध्यति । चित्तवृत्तयः - कास्ताः चित्तवृत्तय इति जिज्ञासायां पतञ्जलिर्ब्रूतेवृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । योग० १-५ प्रमाण - विपर्यय-विकल्प-निद्रा-स्मृतयः । योग० १-६ :-प्रमाण पञ्चापि वृत्तयः क्लिष्टा अक्लिष्टाश्च । क्लेशहेतुकाः क्लिष्टाः, ख्याति - विषया गुणाधिकार- विरोधिन्यश्च अक्लिष्टाः । पञ्च वृत्तय सन्तिः - विपर्यय-विकल्प-निद्रा-स्मृति - नामधेया: । ( १ ) तत्र प्रमाणानि वीणि- प्रत्यक्षअनुमान - आगम ( शब्द ) - नामकानि । ( २ ) विपर्ययो मिथ्याज्ञानम् अविद्या वा । सेयम् अविद्या पञ्चविधा - अविद्याऽस्मिता - -राग-द्वेषाभिनिवेशेति पञ्चक्लेशसमायुक्ता । एते एव पञ्च क्लेशाः - तमस् - मोह-महामोह - तामिस्र - अन्धतामिस्रा इति कथ्यन्ते । ( ३ ) 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प : ' (१-९ ), यथा- राहोः शिरः, शश-शृङ्गम्, चैतन्यं पुरुषस्य स्वरूपम् इति वा । ( ४ ) ' अभाव प्रत्ययालम्बना वृत्तिर्निद्रा' ( १-१० ) अभावबोधस्वरूपा तमोमूला च वृत्तिनिद्रा । (५) 'अनुभूत विषयासम्प्रमोषः स्मृतिः' ( १ - ११ ) अनुभूतविषयानुरूपा वृत्तिः स्मृतिरित्युच्यते । वृत्तिभिः संस्काराः क्रियन्ते, संस्कारैश्च वृत्तय इति वृत्तिसंस्कारयोश्चक्रम् अनिशं परिवर्तते । वृत्तयश्चित्ते क्षयावस्थां संप्राप्ताः संस्काररूपेणावतिष्ठन्ते । वृत्तीनां निरोधे संस्काराणामपि निरोधो जायते । सर्वा अप्येता वृत्तयो निरोद्धव्याः । आसां निरोधे संप्रज्ञातोऽसंप्रज्ञातो वा समाधिर्निष्पद्यते । द्विविधो योगः - संप्रज्ञातः असम्प्रज्ञातश्च । यश्चित्तस्य एकाग्रतावस्थायां सद्भूतमर्थं प्रकाशयति, क्लेशान् शमयति, कर्मबन्धनानि शिथिलयति, निरोधावस्थाम् अभिमुखं करोति, स संप्रज्ञातो नाम योगः । संप्रज्ञातः समाधिः सबीज: समाधिरयुच्यते, अत्र बीजस्यावलम्बनस्य वा सद्भावात् । संप्रज्ञातो योगश्चतुविधो भवति-वितर्कानुगतः, विचारानुगतः, आनन्दानुगतः, अस्मितानुगतश्चेति । सर्ववृत्तीनां निरोधे असम्प्रज्ञातः समाधिः । अयमेव निर्बीजः समाधिरप्युच्यते, अत्र बोजस्यावलम्बनस्य वा असद्भावात् । असंप्रज्ञातः समाधिर्द्विधाभवप्रत्ययः, उपायप्रत्ययश्चेति । ज्ञानोन्मेषाभावेन विदेहानां प्रकृतिलीनानां च
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy