________________
- संस्कृतनिबन्धशतकम् नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः॥ श्वेता०६-१३
सांख्ययोगयोन पारमार्थिको भेदः । व्यक्ताव्यक्तज्ञ-विज्ञानस्य यत् सैद्धान्तिकं रूपं सांख्ये प्राप्यते, तस्यैव व्यावहारिक रूपं योगे प्राप्यते । एकस्यैव तत्त्वज्ञानस्य सांख्यदर्शनं सिद्धान्तपक्षः, योगदर्शनं च व्यावहारिकः पक्षः। एवम् उभयेऽपि परस्पर-संबद्धे, अन्योन्यपूरके, एकलक्ष्यप्रवणे च स्तः ।
सांख्यस्योत्कर्षत्वं निरीक्ष्यैव महाभारते भागवतपुराणे च सांख्यदर्शनं स्तूयते
ज्ञानं महद यद्धि महत्सु राजन् वेदेषु सांख्येषु तथैव योगे। यच्चापि दृष्टं विविधं पुराणे, सांख्यागतं तन्निखिलं नरेन्द्र ॥
__ महा० शान्तिपर्व यस्येरिता सांख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम् ॥
भागवत० ९-८-१४ महाभारतानुसारं योगे पुराणादिषु च यज्ज्ञानं प्राप्यते तत् सांख्यादागतं ज्ञेयम् । भागवतानुसारं च सांख्यपद्धतिर्मोक्षाधिगमाय दृढा नौकेति । आचार्यमाठरोऽपि माठरवृत्तौ कपिलं स्तुवन्नाह
कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने। ___ कारुण्यात् सांख्यमयी नौरिह विहिता प्रतरणाय ॥ माठर-वृत्ति
द्वयोरपि दर्शनयोर्बाह्यार्थस्य स्वतन्त्रसत्ता स्वीक्रियते । द्वे अपि दर्शने जगतो वास्तविकतां स्वीकुरुतः । गीतायां सांख्ययोगयोरेकरूपतां स्वीकुर्वता उच्यते
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ गीता ३-३
एवं सांख्ययोगयोः साम्यं लक्ष्यते । द्वयोर्यद् वैषम्यं तन्न सिद्धान्तमूलम्, अपि तु प्रयोगमूलं प्रक्रियारूपं च । सांख्ये बुद्धियोगः योगे कर्मयोगः, एकत्र ज्ञानमार्गोऽपरत्र कर्ममार्गः, एकत्र तत्त्वचिन्तनेन मोक्षोऽपरत्र समाधिप्रयोगेण, एकत्र बुद्धिशुद्धिरपरत्र कायादिशुद्धिपूर्वम् चित्तवृत्तिनिरोधः, एकत्र मानसः श्रमोऽन्यत्र शारीरः श्रम इत्येवं वैषम्यमपि लक्ष्यते । परम् एकस्यैव तत्त्वदर्शनस्य पक्षान्तराश्रयणेन द्वयोर्दर्शनयोः सृष्टिः । एवं सिध्यति
एकं सांख्यं च योगं च यः पश्यति स पश्यति ।