________________
एकं सांख्यं च योगं च यः पश्यति ०
अस्मिन् सूत्रे सत्त्वं रजस्तमश्चेति गुणत्रयम्, एकादशेन्द्रियाणि, भूतानि, सांख्याभिमतानि स्वीक्रियते ।
विशेषाविशेष लिङ्गमात्रालिङ्गानि गुणपर्वाणि । योग० २ - १९ अत्र प्रकृतेर्मंहत्तत्त्वस्य तन्मात्राणाम् एकादशेन्द्रियाणां पञ्चभूतानां च वर्णनं प्राप्यते ।
४९
पञ्च
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । योग० २ - २० अत्र साक्षिरूपस्य पुरुषस्य वर्णनं वर्तते ।
तदर्थ एव दृश्यस्यात्मा । योग० २ - २१
अत्र पुरुषस्य भोक्तृत्वं प्रकृतेश्च भोग्यत्वं स्वीक्रियते । स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ योग० २-२३ अत्र स्वरूपोलब्ध्यै पुरुष - प्रकृत्योः संयोगो वर्ण्यते । दृश्यस्योपलब्धिर्भोगः, द्रष्टुः पुरुषस्य स्वरूपोपलब्धिः अपवर्गः ।
तस्य हेतुरविद्या | योग० २ - २४
अविद्यैव पुरुषप्रकृत्योरभेदं संस्थापयति । तत्त्वज्ञानेन तयोः स्वरूपज्ञाने भेदे चावधारिते प्रधान - पुरुषान्यताख्यातिर्भवति । तदैव च मोक्षाधिगमः । सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च । योग० ३ - ४९
सांख्याभिमतानि २५ तत्त्वानि योगेऽपि स्वीक्रियन्ते । विवेकज्ञानमेव मुक्तिसाधनम्, एतदेवोभयत्र मन्यते । द्वयोरपि मतेन पुरुषस्य स्वातन्त्र्यं स्वीक्रियते । पुरुषः शुद्ध-बुद्ध - मुक्त - स्वभावो मन्यते । सांख्यसूत्रे 'ईश्वरासिद्धेः ' ( सां० सूत्र १ - ९२ ) इत्याश्रित्य सांख्यस्य निरीश्वरत्वं योगस्य च सेश्वरत्व - मिति वचनं भ्रान्तिमूलकमेव । सांख्ये उपादानकारणरूपेण निमित्तकारणरूपेण चेश्वरस्यासिद्धिः प्रतिपाद्यते । योगेऽपि निमित्तकारणरूपेण न स स्वीक्रियते । तत्संनिधानादधिष्ठातृत्वं मणिवत् । सां० सू० १-९६
सूत्रेऽस्मिन् स्फुटं प्रतिपाद्यते यद् ईश्वरो मणिवत् स्वाधिष्ठानमात्रेण जगत् प्रकाशयति, जगतोऽधिष्ठाता च । अतः सांख्यस्य निरीश्वरत्वकथनं भ्रान्तिमूलकमेव । ईश्वरस्य साक्षित्वादिकं श्वेताश्वतरोपनिषद्यपि विशदं प्रतिपाद्यते ।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
श्वेता० ६-११ तत्रैव स्फुटं प्रतिपाद्यते यत् स ईश्वरः सांख्य-योगयोर्ज्ञानेन ज्ञायते । एवम् उभयोरपि दर्शनयोः सेश्वरत्वं सिध्यति ।
४