________________
१४. एकं सांख्यं च योगं च यः पश्यति स पश्यति
(सांख्ययोगयोः साम्यं वैषम्यं च ) श्रीमद्भगवद्गीतायां श्रीकृष्णेन प्रतिपाद्यते यत् सांख्ययोगौ न पृथक्त्वेन वर्तेते, यतोहि द्वयोरेकमुद्देश्यम्, एका पद्धतिः, कर्तव्यमीमांसा एकरूपेण च तत्त्वमीमांसा। केचन दार्शनिकाः सांख्ययोगयोर्भेदं मन्वते । तेऽतत्त्वज्ञा इत्येवं भगवता कृष्णेन ते धर्ण्यन्ते। यदि यथार्थतो विविच्यते तहि दृश्यते यल्लोके द्विविधा मानवा वर्तन्ते । एके ज्ञानयोगिनोऽपरे कर्मयोगिनश्च । ये बुद्धिजीविनस्ते ज्ञानयोगं प्रशंसन्ति, तं मार्गमेवानुसरन्ति च । ते निवृत्तिमार्गम् अनुसृत्य ब्रह्मतत्त्वं जिज्ञासन्ति । ये कर्मजीविनः सन्ति ते कर्मयोगं प्रशंसन्ति । अतएव गीतायां द्वितीयेऽध्याये उभयविधस्य योगस्य वर्णनम् अवाप्यते । सांख्यसंमतस्य ज्ञानयोगस्य वर्णनं क्रियते यत्
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ गीता० २-३८ ततश्च वर्ण्यते यत् सांख्यानुसारं पूर्वमुक्तम् । साम्प्रतं कर्मयोगो वर्ण्यतेएषा तेऽभिहिता सांख्ये बुद्धिोंगे त्विमां शृणु।
बुद्धचा युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ गीता० २-३९
सांख्ययोगयोः एकोद्देश्यत्वम्-सांख्ययोगयोः . एकमुद्देश्यम्-दुःखप्रणाशेन ब्रह्मसाक्षात्कारो मोक्षाधिगमश्च । द्वयोरपि दर्शनयोरेतस्यैव स्वरूपं पद्धतिः विवरणं च विशदीक्रियन्ते । एकमपि मार्गम् आस्थितो जनो ब्रह्मप्राप्तिरूपं फलम् अश्नुते । अतएव भगवता कृष्णेन प्रतिपाद्यते यत्
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ गीता० ५-४ ।
ये विपश्चितः सांख्ययोगयोः अपृथक्त्वम् अवधारयन्ति त एव निश्चप्रचं दर्शनतत्त्वज्ञाः । ये द्वयोर्भेदं निश्चिन्वते ते अतत्त्वज्ञाः । अतएवोच्यते
यत्सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ गीता० ५-५
तत्त्वमीमांसा-तत्त्वमीमांसादृष्टया द्वयोरपि दर्शनयोरैक्यं समवलोक्यते । सांख्यानुसारं प्रमाणत्रयम्-प्रत्यक्षानुमानागमाः। योगदर्शनेऽपि एतत् प्रमाणत्रयम् अङ्गीक्रियते । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् ।
योगदर्शन २-१८