________________
४७
नास्ति सांख्यसमं ज्ञानम् सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।। 'गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ ( सां० का० १३)
प्रमाणानिः-सांख्याचार्यैः प्रमाणत्रयम् उरीक्रियते-प्रत्यक्षम्, अनुमानं शब्दश्चेति । इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं प्रत्यक्षम् । तच्च द्विविधम्-निर्वि- . कल्पकं सविकल्पकं चेति । व्याप्य-व्यापक-ज्ञानपूर्वकम् अनुमानम् । अन्वयमुखेन प्रवृत्तम् अनुमानं 'वीतम्' । तच्च द्विविधम् पूर्ववत्, सामान्यतोदृष्टं च । व्यतिरेकमुखेन प्रवृत्तम् अनुमानम् 'अवीतम्'। तच्च 'शेषवत्' । आप्तवचनं च शब्दः । उपमान-अर्थापत्ति-अभावादि-प्रमाणानां प्रमाणत्वं नाङ्गीक्रियते सांख्यैः । तथा च
प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिराप्तवचनं तु ॥ (सां०का०५)
पुरुषः--पुरुषस्त्रिगुणातीतः, विवेको, विषयो, विशेषः चेतनः, अप्रसवधर्मी च । चैतन्यरूपः सः । सोऽविकारी, कूटस्थः, नित्यः, सर्वव्यापकश्च । स जगतः साक्षिमात्रः कैवल्यसंपन्नो मध्यस्थो द्रष्टा अकर्ता च । पुरुष-सिद्धयै युक्तिपञ्चकम् उपस्थाप्यते सांख्यैः-प्राकृतिकपदार्थसमूहस्य परार्थत्वात्, त्रैगुण्यभिन्नत्वात्, अधिष्ठानत्वात्, प्रकृतेः भोक्तृत्वात्, कैवल्यार्थं प्रवृत्तेश्च ।।
संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात कैवल्यार्थं प्रवृत्तेश्च ॥ ( सा० का० १७)
सांख्यैः प्रतिपुरुषं भिन्नः पुरुषः 'जीवात्मेति' स्वीक्रियते। अतः पुरुषबहुत्वं स्वीक्रियते तैः । जन्मनिधनेन्द्रियाणां प्रतिपुरुषभेददर्शनात्, सर्वेषाम् एककाल-प्रवृत्त्यभावात्, सत्त्वादिगुणानां भेददर्शनाच्च पुरुष-बहुत्वं मन्यते सांख्यैः ।
जननमरणकरणानां प्रति नियमादयुगपत्प्रवृत्तेश्च ।
पुरुष-बहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ ( सां० का० १८ ) - ईश्वरः-ईश्वरासिद्धेः, प्रमाणाभावान्न तत् सिद्धिः, संबन्धाभावान्नानुमानम् । ( सांख्यसूत्र १-९२, ५-१०, ५-११), इति सांख्यसूत्रानुसारं सांख्यस्य निरीश्वरत्वं साध्यते । आचार्यों विज्ञानभिक्षुः सांख्यस्य सेश्वरत्वं साधयति । तत्संनिधानादधिष्ठातृत्वं मणिवत् ( सां० सूत्र १-९६ ) ईश्वरस्य संनिधिमात्रेण प्रकृतौ चैतन्यं व्यापारश्च, यथा चुम्बकसांनिध्येन लौहे ।
____ अपवर्गः-पुरुषः स्वतोऽसंगो मुक्तश्च, अविवेकेन तस्य प्रकृतिसंयोगः, बन्धनं च। विवेकेन दुःखनिवृत्तिः । 'द्वयोरेकतरस्य वा औदासीन्यमपवर्गः' पुरुषस्य प्रकृति-पार्थक्यं स्वरूपावस्थानं वा अपवर्गः । मुक्तिद्विविधा-जीवन्मुक्तिविदेहमुक्तिश्च । तत्त्वानां सूक्ष्मातिसूक्ष्मविवेचनादेव सांख्यस्य सर्वदर्शनातिशायित्वम् अभ्युपपद्यते ।