________________
संस्कृतनिबन्धशतकम् महत एव नामान्तरं बुद्धिरप्यस्ति । बुद्धिरेव कर्तव्याकर्तव्यं व्यवच्छिनत्ति, ज्ञात-ज्ञेयं विनिश्चिनोति, स्वम् अपरं च प्रकाशयति । महतोऽहंकारस्योद्भवः । अहंबुद्धिरेव 'अहं कर्ता' 'इदं मम' इत्यादि-स्वरूपां मतिं जनयति । सात्त्विकाद् अहंकारात् पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेति एकादशको गणो जायते । तामसाद् अहंकाराच्च शब्द-स्पर्श-रूप-रस-गन्धाख्यानि पञ्च-तन्मात्राणि प्रादुर्भवन्ति । एभ्यः पञ्च-तन्मात्रेभ्यः क्रमशः आकाश-वायु-अग्नि-जल-पृथ्वीनामकानि पञ्चमहाभूतानि समुद्भवन्ति । उक्तं च
प्रकृतेमहांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ ( सां० का० २२) कार्यकारण-सिद्धान्तः-सांख्यस्य कार्य-कारण-सिद्धान्तोऽनुपमः। किं कार्यम्, किं कारणम् इति विप्रतिपत्तौ सांख्याभिमतं यत् कार्य-कारणयोर्न तात्त्विको भेदः । कार्यस्याव्यक्तावस्थैव कारणम्, कारणस्य च व्यक्तावस्थैव कार्यम् इति । तद्यथा-घटो मृद्रूपेण कारणम्, मृच्च घटरूपेण परिणतं कार्यम् इति । अभावाद् भावोत्पत्तिर्न संभाव्यते, न च भावस्य विनाशः । एतदेव गीतायां प्रकारान्तरेण निर्दिश्यते
नासतो विद्यते भावो नाभावो विद्यते सतः॥ (गीता २-१६) सांख्यानामेष एव राद्धान्तः 'सत्कार्यवादः' 'परिणामवादः' 'विकारवादः' इत्यादिनामभिः व्यवह्रियते । स्वाभिमत-संपुष्टौ सांख्याचार्यैः युक्ति-पञ्चकं प्रस्तूयते ।
असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ( सांख्यकारिका ९) असदकरणात्-असद् वस्तु केनापि प्रकारेण सत् कर्तुं न शक्यते । उपादानग्रहणात्-प्रत्येकवस्तुलाभाय तदुपादानकारणमेव गृह्यते । यथा-पटलाभाय तन्तवः, दधिलाभाय दुग्धं वा। सर्वसंभवात्-नहि सर्वस्माद् वस्तुनः सर्वम् वस्तु उपलभ्यते । शक्तस्य शक्यकरणात्-समर्थात् कारणादेव तद्विधकार्योपलब्धिर्भवति । कारणभावाच्त्र-कार्यकारणयोरैक्यं तात्त्विकम् । अव्यक्तावस्थायां तदेव कारणम्, व्यक्तावस्थायां च तत् कार्यमिति । एवं सांख्यैः सत्कार्यवादः प्रस्तूयते ।
प्रकृतिर्गुणत्रयं च सर्वस्यास्य जगतो मूलकारणं मूलप्रकृतिः प्रकृति वर्तते । प्रकृतिश्च त्रिगुणात्मिका । सत्त्वं रजः तमश्चेति गुणत्रयम् । सत्त्वं सुखात्मकम्, रजो दुःखात्मकम्, तमश्च मोहात्मकम् । स्वरूपदृष्ट्या सत्त्वं लघु प्रकाशकं चास्ते, रजः प्रवर्तकं चञ्चलं च, तमस्तु गुरु आवरकं च । यथा दीपे तैलं वर्तिका ज्योतिश्च विरुद्धगुणवन्ति सन्त्यपि परस्परोपयोगितां दधति, तथैव विरुद्धगुणभाज़ोऽपि गुणाः परस्परसहकारित्वेन कार्य निष्पादयन्ति, उक्तं च