________________
नास्ति सांख्यसमं ज्ञानम्
प्राप्यन्ते । योगेन सहैव सांख्यस्योल्लेख उपलभ्यते । 'तत्कारणं सांख्ययोगाधिगम्यम्' ( श्वेता०६-१३) । 'अजामेकां लोहित-शुक्ल-कृष्णाम्०' (श्वेता० ४-५) इत्यत्र सांख्याभिमत-गुणत्रयस्य प्रतिपादनं प्राप्यते । 'मनसस्तु परा बुद्धिबुद्धेरात्मा महान् परः । महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः' ( कठ० १.३. १०-११) इत्यत्र प्रतिपादितः क्रमः सांख्यराद्धान्तेऽपि स्वीक्रियते । मैत्रायण्युपनिषदि तन्मात्रा-त्रिगुण-प्रकृति-पुरुष-विवेकादि-सिद्धान्तानां वर्णनम् आप्यते । अतोऽवगम्यते सांख्यसिद्धान्तानां प्रत्नत्वम् ।
सांख्यतत्त्वमीमांसा-सांख्यदर्शनानुसारं पुरुष-प्रकृति-नामकं तत्त्वद्वयमेव नित्यतत्त्वरूपेण स्वीक्रियते । यदि प्रकृति-विकृत्यादीनामपि संग्रहो विधीयते तर्हि तत्त्वानां संख्या पञ्चविंशतिः ( २५ ) भवति । एषां तत्त्वानां चतुर्धा विभागो विधीयतेः-(१) प्रकृतिः–कारणमात्रमेव, न तु कस्यचिद् वस्तुनः कार्यम् । यथा-मूलप्रकृतिः । इयमेव प्रधानम्, अव्यक्तम् इति चोच्यते । ( २ ) विकृतिः यत् तत्त्वं केवलं कार्यरूपं भवति, न तु कस्यापि कारणरूपम् । ईदृशानां तत्त्वानां संख्या षोडश (१६) वर्तते । (३) प्रकृति-विकृतिः-कानिचित् तत्त्वानि उभयविधानि भवन्ति-कार्यरूपाणि कारणरूपाणि च । एषां संख्या सप्त (७) वर्तते । ( ४ ) न प्रकृतिर्न विकृतिः-न कारणं न च कार्यम् । यथापुरुषः । अत एवोच्यते सांख्यकारिकायाम्
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ (३) पञ्चविंशतितत्त्वानां विवरणमेवं प्रस्तूयतेः
स्वरूपम् संख्या विवरणम् (१) प्रकृतिः
१ मूलप्रकृतिः, प्रधानम्, अव्यक्तं वा । (२) विकृतिः
५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, १
मनः । ५ महाभूतानि च । (३) प्रकृति-विकृतिः ७ महत् तत्त्वम्, अहंकारः, ५ तन्मात्रा। (४) न प्रकृतिर्न विकृतिः १ पुरुषः।।
सृष्टिक्रमः-प्रकृतिपुरुषयोः संयोगात् सृष्टिर्जायते । प्रकृतिर्जडः पुरुषश्च निष्क्रियः, अतः पुरुषस्य कैवल्यार्थं प्रकृतेश्च दर्शनार्थं पङ्ग्वन्धवदुभयोः संयोगः स्वीक्रियते । ततश्च स्पष्ट्युत्पत्तिर्भवति ।
पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ (सांख्यकारिका २१) सृष्टेः प्राग् गुणत्रयं साम्यावस्थायाम् अवतिष्ठते । सति च पुरुष-प्रकृतिसंयोगे गुणेषु क्षोभः संजायते। गुणक्षोभे च रजोगुणे प्रवृत्तिनिमित्तकं चाञ्चल्यम् उत्पद्यते । ततश्च सृष्टयुत्पत्तिक्रमः प्रवर्तते । प्रकृतेर्महत्-तत्त्वस्योत्पत्तिर्भवति ।