________________
१३. नास्ति सांख्यसमं ज्ञानम्
( सांख्याभिमत-तत्त्वमीमांसा ) व्यक्ताव्यक्तज्ञविज्ञानाद् दुःखदावाग्निनाशनम् ।
मनोज्ञं कपिलोपज्ञं, सांख्यं संख्यावतां सुहृत् ॥ ( कपिलस्य )
सांख्य-शब्दार्थः-सम्-सम्यक्, ख्यातिः-विवेकज्ञानम्, एतदेव सम्यग्विज्ञानं सांख्यशब्देनाभिधीयते। 'प्रकृति-पुरुषान्यताख्यातिः' प्रकृति-पुरुषयोर्भेददर्शनं सांख्याभिमतम् इत्येवाश्रित्य दर्शनस्यैतस्य कृते सांख्यशब्दः प्रयुज्यते । भागवते ( ३-३५) इदं दर्शनं 'तत्त्व-संख्यानम्' उदीर्यते । महाभारते तत्त्वगणनाम् आश्रित्येदं दर्शनं सांख्यम् इत्यभिधीयते । तथा चोक्तं महाभारते
संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते।।
तत्त्वानि च चतुर्विशत् तेन सांख्याः प्रकीर्तिताः॥ अत्र तत्त्वानां संख्या गणना वा प्रस्तूयते, अतः सांख्यम् इति ।
सांख्याचार्याः-सांख्यदर्शनं नितरां प्राचीनं दर्शनम् । उपनिषत्स्वपि दर्शनस्यास्या राद्धान्ता यत्र तत्रावलोक्यन्ते । दर्शनस्यैतस्य प्रणेता आदिविद्वान् कपिलो वर्तते । 'आदिविद्वान्' इति विशेषणेन सम्यग् एतदवधार्यते यत् कपिल: प्राचीनतमः तत्त्वज्ञो बभूव । स ग्रन्यरत्नद्वयस्य प्रणेताङ्गीक्रियते-तत्त्वसमासस्य सांख्यसूत्रस्य च। कपिलस्य कालविषये विविधा विप्रतिपत्तिः। सांख्यसूत्रस्य च समयनिर्धारणे न विदुषाम् ऐकमत्यम् । कपिलस्य शिष्य आसुरि: बभूव । न तत्कृतो ग्रन्थः साम्प्रतम् उपलभ्यते । आसुरि-शिष्यः पञ्चशिखः 'षष्टितन्त्र'-ग्रन्थस्य प्रणेतेति विपश्चिद्धिः स्वीक्रियते । ग्रन्थेऽस्मिन् षष्टिसहस्रपरिमिताः श्लोका आसन् इति बुधैरभ्युपपद्यते । साम्प्रतम् उपलभ्यमानेषु ग्रन्थेषु ईश्वरकृष्ण-कृता 'सांख्यकारिका' प्राचीनतमा विद्यते । अत्र सप्तति-कारकासु सर्वमपि सांख्यसिद्धान्तजातं संक्षिप्य प्रतिपादितं वर्तते । समयोऽस्य ईसवीयशताब्द्याः प्रथमः शतकोऽभ्युपपद्यते । ग्रन्थस्यास्य प्रामाण्यं लोकप्रियतां चाश्रित्य शंकराचार्योऽपि सांख्यमतप्रतिपादनार्थं सांख्यकारिकामेव उद्धरति । अस्य ग्रन्थस्य व्याख्यानभूताः सप्त टीकाः सन्ति । तत्रापि वाचस्पतिमिश्रकृता 'सांख्यतत्त्वकौमुदी'-नाम्नी टीका प्रथिततमा। परकालीनेषु सांख्याचार्येषु विन्ध्यवासिनो विज्ञानभिक्षोश्च नामनी विशेषत उल्लेख्ये स्तः। विज्ञानभिक्षुराचार्यः सांख्यदर्शनस्य पुनरुद्धारको गण्यते । अयं सांख्यसूत्रे सांख्यप्रवचनभाष्यं प्रणिनाय। सोऽयं सांख्यस्य निरीश्वरत्वं प्रत्याख्याय सेश्वरत्वं साधु प्रत्यस्थापयत् । .
सांख्यस्य प्राचीनत्वम्-उपनिषदाम् अध्ययनेन सांख्यस्य प्राचीनत्वम् आलक्ष्यते । श्वेताश्वतर-मैत्रायणी-कठोपनिषत्सु च सांख्यराद्धान्ता विकीर्णाः