SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् । गीता ४-१५ । अनासक्तः कर्म कुर्वन् अकर्तेव सदा दुःखविमुक्तो मोक्षभाक् च भवति । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः । गीता ४-२० प्रवृत्ति-निवृत्तिमार्गयोः कतरः पन्थाः साधीयानिति जिज्ञासायां श्रीकृष्णः स्वमतम् उपस्थापयति यद् निवृत्तिमार्गात् प्रवृत्तिमार्गः श्रेयान् । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ गीता ५-२ एवं सिध्यतितरां यत् कर्मयोग एव साधीयान् सुकरः सुखावाप्तिसाधकश्चेति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy