________________
संस्कृतनिबन्धशतकम्
भावनाया उदयश्च साधीयसी गति साधयति । अतएवानासक्तिभावोदये गीतायास्तादृशो दृढानुरोधः। अनासक्तिभावोदये उभयथापि सुखावाप्तिः । उच्यते च
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ गीता २-३७ सुखदुःखे लाभालाभे समबुद्धित्वमेव योगभावना व्यवह्रियते । तथोच्यते
योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ गीता २-४२
कर्त्तव्यभावनयाऽनासक्तेन च यत् कर्म क्रियते तत् कर्मकौशलमिति अभ्युपपद्यते । एतदेव परमो योग इत्युच्यते
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् । गीता २-५० . प्राकृतिका गुणाः प्रतिक्षणं मानवं कर्मकरणार्थ प्रेरयन्ति । एतदेवोच्यते
नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ गीता ३-५
कर्मयोगम् अनास्थाय जीवननिर्वाहोऽपि दुष्करः, अतः कर्मणोऽनिवार्यत्वं प्रसिध्यति ।
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥ गीता ३-८ यः कोपि अनासक्त: कर्मारभते प्रयतते च, स मोक्षभाग् भवति । तस्मादसक्तः सततं कार्य कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥ गीता ३-१९
कर्मणैव यतयो मुनयोऽनासक्तधियश्च जीवने साफल्यं लेभिरे । जनहितसाधनायापि कर्मणोऽनिवार्यत्वं सिध्यति । उक्तं च
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ गीता ३-२० .. महायोगी दिव्यमानवोऽपि श्रीकृष्णः कर्मणो महत्त्वं प्रतिपादयन्नाह यद् यद्यहं न कर्म कुर्यां तहि लोके मानवा न कर्म विधास्यन्ति एवं संकरस्य कारणं भविष्यामि।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम। संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ गीता ३-२४ ।
अतः सर्वस्यापि जनस्य कर्तव्यं यत् स कर्मणि प्रवर्तेत । मुमुक्षुभिरपि कृतमेतत् ।